13.085
वसिष्ठ उवाच॥
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्। पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥१३-८५-१॥
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम्। ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ॥१३-८५-२॥
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः। यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥१३-८५-३॥
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः। ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥१३-८५-४॥
लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः। ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ॥१३-८५-५॥
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च। भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ॥ जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ॥१३-८५-६॥
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः। आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ॥१३-८५-७॥
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः। स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥१३-८५-८॥
तस्य शुक्रस्य निष्पन्दात्पांसून्सङ्गृह्य भूमितः। प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥१३-८५-९॥
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके। ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥१३-८५-१०॥
स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः। आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ॥१३-८५-११॥
ततः सञ्जनयामास भूतग्रामं स वीर्यवान्। ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥१३-८५-१२॥
तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्। सगुणस्तेजसो नित्यं तमस्याकाशमेव च ॥१३-८५-१३॥
सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः। शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥१३-८५-१४॥
पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः। भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ॥१३-८५-१५॥
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्। सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥१३-८५-१६॥
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्। अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् ॥ अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥१३-८५-१७॥
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः। वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः ॥ अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ॥१३-८५-१८॥
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे। ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ॥१३-८५-१९॥
एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः। ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ॥१३-८५-२०॥
यानि दारूणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः। अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ॥१३-८५-२१॥
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्। तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥१३-८५-२२॥
अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः। उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥१३-८५-२३॥
आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम्। सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ॥१३-८५-२४॥
ततोऽब्रवीन्महादेवो वरुणः परमात्मकः। मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥१३-८५-२५॥
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः। इति जानीत खगमा मम यज्ञफलं हि तत् ॥१३-८५-२६॥
अग्निरुवाच॥
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च। ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ॥१३-८५-२७॥
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः। ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ॥१३-८५-२८॥
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह। यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥१३-८५-२९॥
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै। कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥१३-८५-३०॥
वयं च भगवन्सर्वे जगच्च सचराचरम्। तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ॥ वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥१३-८५-३१॥
निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः। जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ॥१३-८५-३२॥
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत्। पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ॥१३-८५-३३॥
तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत्। आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ॥ भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥१३-८५-३४॥
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः। सर्वं सन्तानमेतेषामिदमित्युपधारय ॥१३-८५-३५॥
भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः। च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥१३-८५-३६॥
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते। भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥१३-८५-३७॥
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः। बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ॥१३-८५-३८॥
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः। एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥१३-८५-३९॥
ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः। अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥१३-८५-४०॥
कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा। भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ॥१३-८५-४१॥
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम्। प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥१३-८५-४२॥
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः। भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥१३-८५-४३॥
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः। कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ॥१३-८५-४४॥
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः। तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः ॥१३-८५-४५॥
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः। इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥१३-८५-४६॥
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः। त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ॥१३-८५-४७॥
तथैव वंशकर्तारस्तव तेजोविवर्धनाः। भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा ॥१३-८५-४८॥
देवपक्षधराः सौम्याः प्राजापत्या महर्षयः। आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ॥१३-८५-४९॥
सर्वे हि वयमेते च तवैव प्रसवः प्रभो। देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥१३-८५-५०॥
मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः। अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ॥१३-८५-५१॥
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः। स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥१३-८५-५२॥
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः। देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥१३-८५-५३॥
अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः। अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ॥१३-८५-५४॥
अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम्। जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥१३-८५-५५॥
कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम्। हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥१३-८५-५६॥
तस्मादग्निपराः सर्वा देवता इति शुश्रुम। ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ॥१३-८५-५७॥
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः। देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥१३-८५-५८॥
तस्य चातमसो लोका गच्छतः परमां गतिम्। स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ॥१३-८५-५९॥
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम्। ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ॥१३-८५-६०॥
ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते। मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥१३-८५-६१॥
ददाति पश्चिमां सन्ध्यां यः सुवर्णं धृतव्रतः। ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥१३-८५-६२॥
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम्। इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ॥१३-८५-६३॥
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा। अनावृतगतिश्चैव कामचारी भवत्युत ॥१३-८५-६४॥
न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत्। सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ॥१३-८५-६५॥
यस्तु सञ्जनयित्वाग्निमादित्योदयनं प्रति। दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ॥१३-८५-६६॥
अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम्। यथेष्टगुणसम्पन्नं प्रवर्तकमिति स्मृतम् ॥१३-८५-६७॥
भीष्म उवाच॥
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्। ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ॥१३-८५-६८॥
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते। प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ॥१३-८५-६९॥
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु। ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥१३-८५-७०॥