Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.087
श्राद्धकल्पः
युधिष्ठिर उवाच॥
चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ। तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥१३-८७-१॥
वैशम्पायन उवाच॥
युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा। इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ॥१३-८७-२॥
भीष्म उवाच॥
शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम्। धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप ॥१३-८७-३॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्। पिशाचकिंनराणां च पूज्या वै पितरः सदा ॥१३-८७-४॥
पितॄन्पूज्यादितः पश्चाद्देवान्सन्तर्पयन्ति वै। तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा ॥१३-८७-५॥
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते। तच्चामिषेण विधिना विधिः प्रथमकल्पितः ॥१३-८७-६॥
सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः। प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् ॥१३-८७-७॥
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ। तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ॥१३-८७-८॥
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः। अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥१३-८७-९॥
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः। चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ॥१३-८७-१०॥
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप। कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ॥१३-८७-११॥
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप। अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ॥१३-८७-१२॥
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु। विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ॥१३-८७-१३॥
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप। ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥१३-८७-१४॥
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते। रजतं बहु चित्रं च सुवर्णं च मनोरमम् ॥१३-८७-१५॥
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम्। अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ॥१३-८७-१६॥
युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम्। अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् ॥१३-८७-१७॥
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्। श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः ॥१३-८७-१८॥
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते। तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥१३-८७-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.