13.088
युधिष्ठिर उवाच॥
किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर। किं हविश्चिररात्राय किमानन्त्याय कल्पते ॥१३-८८-१॥
भीष्म उवाच॥
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः। तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥१३-८८-२॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा। दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥१३-८८-३॥
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत्। सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥१३-८८-४॥
द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह। त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु ॥१३-८८-५॥
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप। वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु ॥१३-८८-६॥
मासानष्टौ पार्षतेन रौरवेण नवैव तु। गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥१३-८८-७॥
मासानेकादश प्रीतिः पितॄणां माहिषेण तु। गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥१३-८८-८॥
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह। वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥१३-८८-९॥
आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये। कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥१३-८८-१०॥
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर। सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ॥१३-८८-११॥
अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम्। मघासु सर्पिषा युक्तं पायसं दक्षिणायने ॥१३-८८-१२॥
आजेन वापि लौहेन मघास्वेव यतव्रतः। हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥१३-८८-१३॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्। यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥१३-८८-१४॥
आपो मूलं फलं मांसमन्नं वापि पितृक्षये। यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥१३-८८-१५॥