Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.089
भीष्म उवाच॥
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे। तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ॥१३-८९-१॥
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः। अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥१३-८९-२॥
अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे। क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ॥१३-८९-३॥
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ। पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ॥१३-८९-४॥
आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते। ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ॥१३-८९-५॥
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत्। अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ॥१३-८९-६॥
चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान्। स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ॥१३-८९-७॥
बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः। अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् ॥१३-८९-८॥
आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन्। नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः ॥१३-८९-९॥
मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम्। उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ॥१३-८९-१०॥
श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात्। श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् ॥१३-८९-११॥
राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः। नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥१३-८९-१२॥
पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम्। उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ॥१३-८९-१३॥
बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः। अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् ॥१३-८९-१४॥
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत्। अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ॥१३-८९-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.