13.090
युधिष्ठिर उवाच॥
कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह। द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥१३-९०-१॥
भीष्म उवाच॥
ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित्। दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् ॥१३-९०-२॥
देवताः पूजयन्तीह दैवेनैवेह तेजसा। उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥१३-९०-३॥
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः। कुलशीलवयोरूपैर्विद्ययाभिजनेन च ॥१३-९०-४॥
एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः। अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥१३-९०-५॥
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः। ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥१३-९०-६॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी। सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥१३-९०-७॥
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे। अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥१३-९०-८॥
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः। अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥१३-९०-९॥
श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च। परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ॥ कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥१३-९०-१०॥
एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान्। शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥१३-९०-११॥
षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति। पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥१३-९०-१२॥
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः। सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥१३-९०-१३॥
असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम्। सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥१३-९०-१४॥
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन। तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् ॥१३-९०-१५॥
तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः। यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥१३-९०-१६॥
यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति। तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ॥१३-९०-१७॥
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः। ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥१३-९०-१८॥
वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि। पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ॥१३-९०-१९॥
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्। ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः ॥१३-९०-२०॥
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः। ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ॥ वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥१३-९०-२१॥
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः। सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ॥१३-९०-२२॥
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः। मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः ॥१३-९०-२३॥
अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः। सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ॥१३-९०-२४॥
इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः। यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ॥१३-९०-२५॥
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान्। ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥१३-९०-२६॥
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च। अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥१३-९०-२७॥
उपपन्नो गुरुकुले सत्यवादी सहस्रदः। अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ॥१३-९०-२८॥
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत। ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ॥१३-९०-२९॥
क्रोशादर्धतृतीयात्तु पावयेदेक एव हि। ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ॥१३-९०-३०॥
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत्। ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥१३-९०-३१॥
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः। न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥१३-९०-३२॥
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान्। स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् ॥१३-९०-३३॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च। न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ॥१३-९०-३४॥
यश्च श्राद्धे कुरुते सङ्गतानि; न देवयानेन पथा स याति। स वै मुक्तः पिप्पलं बन्धनाद्वा; स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ॥१३-९०-३५॥
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत; दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि। यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद्धव्यकव्ये ॥१३-९०-३६॥
यथोषरे बीजमुप्तं न रोहे; न चास्योप्ता प्राप्नुयाद्बीजभागम्। एवं श्राद्धं भुक्तमनर्हमाणै; र्न चेह नामुत्र फलं ददाति ॥१३-९०-३७॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति। तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥१३-९०-३८॥
सम्भोजनी नाम पिशाचदक्षिणा; सा नैव देवान्न पितॄनुपैति। इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौरिव नष्टवत्सा ॥१३-९०-३९॥
यथाग्नौ शान्ते घृतमाजुहोति; तन्नैव देवान्न पितॄनुपैति। तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणामावृणोति ॥१३-९०-४०॥
उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै। आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान्पातयेद्देवयानात् ॥१३-९०-४१॥
ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर। निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥१३-९०-४२॥
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च। तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥१३-९०-४३॥
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत। तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः ॥१३-९०-४४॥
ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत्। ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् ॥१३-९०-४५॥
वैखानसानां वचनमृषीणां श्रूयते नृप। दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ॥ प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् ॥१३-९०-४६॥
यः सहस्रं सहस्राणां भोजयेदनृचां नरः। एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥१३-९०-४७॥