Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.091
युधिष्ठिर उवाच॥
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम्। भृग्वङ्गिरसके काले मुनिना कतरेण वा ॥१३-९१-१॥
कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च। धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह ॥१३-९१-२॥
भीष्म उवाच॥
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले यदात्मकम्। येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ॥१३-९१-३॥
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्। तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥१३-९१-४॥
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः। निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥१३-९१-५॥
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः। कालधर्मपरीतात्मा निधनं समुपागतः ॥१३-९१-६॥
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा। सन्तापमगमत्तीव्रं पुत्रशोकपरायणः ॥१३-९१-७॥
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः। तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ॥१३-९१-८॥
तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः। मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ॥१३-९१-९॥
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः। यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥१३-९१-१०॥
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह। तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥१३-९१-११॥
अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान्। दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥१३-९१-१२॥
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत्। ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥१३-९१-१३॥
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः। पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥१३-९१-१४॥
कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः। प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥१३-९१-१५॥
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः। पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥१३-९१-१६॥
अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम्। कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥१३-९१-१७॥
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः। ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥१३-९१-१८॥
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम्। भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥१३-९१-१९॥
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधनः। मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् ॥१३-९१-२०॥
सोऽयं स्वयम्भुविहितो धर्मः सङ्कल्पितस्त्वया। ऋते स्वयम्भुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् ॥१३-९१-२१॥
आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम्। स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे ॥१३-९१-२२॥
कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन। ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः ॥१३-९१-२३॥
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः। तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा ॥१३-९१-२४॥
स्तोतव्या चेह पृथिवी निवापस्येह धारिणी। वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥१३-९१-२५॥
उदकानयने चैव स्तोतव्यो वरुणो विभुः। ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ॥१३-९१-२६॥
देवास्तु पितरो नाम निर्मिता वै स्वयम्भुवा। ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ॥१३-९१-२७॥
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात्। सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयम्भुवा ॥१३-९१-२८॥
विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते। तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥१३-९१-२९॥
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा। ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ॥१३-९१-३०॥
विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च। विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ॥१३-९१-३१॥
सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः। उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥१३-९१-३२॥
चमूहरः सुवेषश्च व्योमारिः शङ्करो भवः। ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥१३-९१-३३॥
गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा। सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥१३-९१-३४॥
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च। जितात्मा मुनिवीर्यश्च दीप्तलोमा भयङ्करः ॥१३-९१-३५॥
अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा। शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥१३-९१-३६॥
स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः। कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥१३-९१-३७॥
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा। हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ॥१३-९१-३८॥
पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः। कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥१३-९१-३९॥
ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत्। कृष्णाजाजी विडश्चैव शीतपाकी तथैव च ॥ अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥१३-९१-४०॥
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च। अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ॥१३-९१-४१॥
निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम्। पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ॥१३-९१-४२॥
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते। काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ॥१३-९१-४३॥
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः। वर्जनीया बुधैरेते निवापे समुपस्थिते ॥१३-९१-४४॥
इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा। पितामहसभां दिव्यां जगामात्रिस्तपोधनः ॥१३-९१-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.