13.092
भीष्म उवाच॥
तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः। पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥१३-९२-१॥
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत। तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः ॥१३-९२-२॥
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत। तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ॥१३-९२-३॥
अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह। सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः ॥१३-९२-४॥
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः। निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ॥१३-९२-५॥
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः। स्वयम्भूसदनं यात स वः श्रेयो विधास्यति ॥१३-९२-६॥
ते सोमवचनाद्देवाः पितृभिः सह भारत। मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥१३-९२-७॥
पितर ऊचुः॥
निवापान्नेन भगवन्भृशं पीड्यामहे वयम्। प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥१३-९२-८॥
इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्। एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ॥१३-९२-९॥
अग्निरुवाच॥
सहितास्तात भोक्ष्यामो निवापे समुपस्थिते। जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥१३-९२-१०॥
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन्। एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप ॥१३-९२-११॥
निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ। न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ॥ रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ॥१३-९२-१२॥
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे। प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ॥१३-९२-१३॥
ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः। सोमायेति च वक्तव्यं तथा पितृमतेति च ॥१३-९२-१४॥
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या। निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजाः ॥१३-९२-१५॥
जलं प्रतरमाणश्च कीर्तयेत पितामहान्। नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ॥१३-९२-१६॥
पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः। सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥१३-९२-१७॥
कल्माषगोयुगेनाथ युक्तेन तरतो जलम्। पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः ॥ सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ॥१३-९२-१८॥
मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै। पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः ॥१३-९२-१९॥
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा। अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ॥ एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥१३-९२-२०॥
एते च पितरो राजन्नेष श्राद्धविधिः परः। प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ॥१३-९२-२१॥
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्। ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ॥१३-९२-२२॥