Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.093
व्रतविशेषाः
युधिष्ठिर उवाच॥
द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते। अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥१३-९३-१॥
भीष्म उवाच॥
अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः। वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥१३-९३-२॥
युधिष्ठिर उवाच॥
यदिदं तप इत्याहुरुपवासं पृथग्जनाः। तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ॥१३-९३-३॥
भीष्म उवाच॥
मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः। आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥१३-९३-४॥
त्यागस्यापि च सम्पत्तिः शिष्यते तप उत्तमम्। सदोपवासी च भवेद्ब्रह्मचारी तथैव च ॥१३-९३-५॥
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत्। कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ॥१३-९३-६॥
अमृताशी सदा च स्यात्पवित्री च सदा भवेत्। ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥१३-९३-७॥
विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः। अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् ॥१३-९३-८॥
युधिष्ठिर उवाच॥
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव। विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥१३-९३-९॥
भीष्म उवाच॥
अन्तरा सायमाशं च प्रातराशं तथैव च। सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ॥१३-९३-१०॥
भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह। ऋतवादी सदा च स्याद्दानशीलश्च मानवः ॥१३-९३-११॥
अभक्षयन्वृथा मांसममांसाशी भवत्युत। दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् ॥१३-९३-१२॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा। अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥१३-९३-१३॥
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः। अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥१३-९३-१४॥
देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह। अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥१३-९३-१५॥
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः। उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ॥१३-९३-१६॥
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते। रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥१३-९३-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.