13.098
छत्रोपानहदानम्
युधिष्ठिर उवाच॥
एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः। जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥१३-९८-१॥
भीष्म उवाच॥
तथा प्रयाचमानस्य मुनिरग्निसमप्रभः। जमदग्निः शमं नैव जगाम कुरुनन्दन ॥१३-९८-२॥
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्। कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ॥१३-९८-३॥
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः। कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥१३-९८-४॥
जमदग्निरुवाच॥
स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा। अवश्यं विनयाधानं कार्यमद्य मया तव ॥१३-९८-५॥
अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर। तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥१३-९८-६॥
सूर्य उवाच॥
असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर। अपकारिणं तु मां विद्धि भगवञ्शरणागतम् ॥१३-९८-७॥
भीष्म उवाच॥
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्। न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥१३-९८-८॥
ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले। सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥१३-९८-९॥
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च। एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥१३-९८-१०॥
भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत्। सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ॥१३-९८-११॥
एतस्य त्वपनीतस्य समाधिं तात चिन्तय। यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥१३-९८-१२॥
भीष्म उवाच॥
एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः। अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ॥१३-९८-१३॥
सूर्य उवाच॥
महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्। प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ॥१३-९८-१४॥
अद्यप्रभृति चैवैतल्लोके सम्प्रचरिष्यति। पुण्यदानेषु सर्वेषु परमक्षय्यमेव च ॥१३-९८-१५॥
भीष्म उवाच॥
उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम्। पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥१३-९८-१६॥
तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम्। धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥१३-९८-१७॥
छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये। शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥१३-९८-१८॥
स शक्रलोके वसति पूज्यमानो द्विजातिभिः। अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥१३-९८-१९॥
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ। स्नातकाय महाबाहो संशिताय द्विजातये ॥१३-९८-२०॥
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्। गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥१३-९८-२१॥
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्। छत्रोपानहदानस्य फलं भरतसत्तम ॥१३-९८-२२॥