13.099
आरामादिनिर्माणम्
युधिष्ठिर उवाच॥
आरामाणां तडागानां यत्फलं कुरुनन्दन। तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥१३-९९-१॥
भीष्म उवाच॥
सुप्रदर्शा वनवती चित्रधातुविभूषिता। उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ॥१३-९९-२॥
तस्याः क्षेत्रविशेषं च तडागानां निवेशनम्। औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥१३-९९-३॥
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः। त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥१३-९९-४॥
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम्। कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ॥१३-९९-५॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः। तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ॥१३-९९-६॥
चतुर्विधानां भूतानां तडागमुपलक्षयेत्। तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥१३-९९-७॥
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः। स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥१३-९९-८॥
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः। या च तत्र फलावाप्तिरृषिभिः समुदाहृता ॥१३-९९-९॥
वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति। अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥१३-९९-१०॥
शरत्काले तु सलिलं तडागे यस्य तिष्ठति। गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥१३-९९-११॥
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति। स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥१३-९९-१२॥
यस्य वै शैशिरे काले तडागे सलिलं भवेत्। अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ॥१३-९९-१३॥
तडागं सुकृतं यस्य वसन्ते तु महाश्रयम्। अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥१३-९९-१४॥
निदाघकाले पानीयं तडागे यस्य तिष्ठति। वाजपेयसमं तस्य फलं वै मुनयो विदुः ॥१३-९९-१५॥
स कुलं तारयेत्सर्वं यस्य खाते जलाशये। गावः पिबन्ति पानीयं साधवश्च नराः सदा ॥१३-९९-१६॥
तडागे यस्य गावस्तु पिबन्ति तृषिता जलम्। मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ॥१३-९९-१७॥
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च। तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥१३-९९-१८॥
दुर्लभं सलिलं तात विशेषेण परत्र वै। पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥१३-९९-१९॥
तिलान्ददत पानीयं दीपान्ददत जाग्रत। ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ॥१३-९९-२०॥
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते। पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥१३-९९-२१॥
एवमेतत्तडागेषु कीर्तितं फलमुत्तमम्। अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे ॥१३-९९-२२॥
स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः। वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥१३-९९-२३॥
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे। कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥१३-९९-२४॥
लभते नाम लोके च पितृभिश्च महीयते। देवलोकगतस्यापि नाम तस्य न नश्यति ॥१३-९९-२५॥
अतीतानागते चोभे पितृवंशं च भारत। तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ॥१३-९९-२६॥
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः। परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥१३-९९-२७॥
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन्। छायया चातिथींस्तात पूजयन्ति महीरुहाः ॥१३-९९-२८॥
किंनरोरगरक्षांसि देवगन्धर्वमानवाः। तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥१३-९९-२९॥
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्। वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ॥१३-९९-३०॥
तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा। पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥१३-९९-३१॥
तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः। एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥१३-९९-३२॥
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत्। यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥१३-९९-३३॥