13.104
ब्रह्मस्वहरणम्
युधिष्ठिर उवाच॥
ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ। नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः ॥१३-१०४-१॥
भीष्म उवाच॥
अत्राप्युदाहरण्तीममितिहासं पुरातनम्। चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥१३-१०४-२॥
राजन्य उवाच॥
वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे। श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥१३-१०४-३॥
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते। कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ॥१३-१०४-४॥
चण्डाल उवाच॥
ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा। सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः ॥१३-१०४-५॥
दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत्। सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥१३-१०४-६॥
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः। ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥१३-१०४-७॥
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः। पशूनवेक्षमाणाश्च साधुवृत्तेन दम्पती ॥१३-१०४-८॥
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः। तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥१३-१०४-९॥
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः। ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ॥१३-१०४-१०॥
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन। ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ॥१३-१०४-११॥
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता। विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ॥१३-१०४-१२॥
ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः। ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥१३-१०४-१३॥
सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम्। श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति ॥ नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ॥१३-१०४-१४॥
श्वचर्यामतिमानं च सखिदारेषु विप्लवम्। तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥१३-१०४-१५॥
श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम्। अतिमानेन भूतानामिमां गतिमुपागतम् ॥१३-१०४-१६॥
अहं वै विपुले जातः कुले धनसमन्विते। अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ॥१३-१०४-१७॥
अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा। संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ॥१३-१०४-१८॥
सोऽहं तेन च वृत्तेन भोजनेन च तेन वै। इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् ॥१३-१०४-१९॥
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम्। धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ॥१३-१०४-२०॥
स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः। दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः ॥१३-१०४-२१॥
तथा पापकृतं विप्रमाश्रमस्थं महीपते। सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥१३-१०४-२२॥
अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ। निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥१३-१०४-२३॥
जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा। शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥१३-१०४-२४॥
त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते। चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥१३-१०४-२५॥
राजन्य उवाच॥
चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि। ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥१३-१०४-२६॥
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम्। हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥१३-१०४-२७॥
भीष्म उवाच॥
इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परन्तप। हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥१३-१०४-२८॥
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ। यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् ॥१३-१०४-२९॥