Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.105
हस्तिकूटम्
युधिष्ठिर उवाच॥
एको लोकः सुकृतिनां सर्वे त्वाहो पितामह। उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह ॥१३-१०५-१॥
भीष्म उवाच॥
कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः। पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः ॥१३-१०५-२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गौतमस्य मुनेस्तात संवादं वासवस्य च ॥१३-१०५-३॥
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः। महावने हस्तिशिशुं परिद्यूनममातृकम् ॥१३-१०५-४॥
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः। स तु दीर्घेण कालेन बभूवातिबलो महान् ॥१३-१०५-५॥
तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम्। धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ॥१३-१०५-६॥
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः। अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥१३-१०५-७॥
मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ। मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् ॥१३-१०५-८॥
इध्मोदकप्रदातारं शून्यपालकमाश्रमे। विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ॥१३-१०५-९॥
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम। न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ॥१३-१०५-१०॥
धृतराष्ट्र उवाच॥
गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च। अन्यच्च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम् ॥१३-१०५-११॥
गौतम उवाच॥
त्वामेव गावोऽभि भवन्तु राज; न्दास्यः सनिष्का विविधं च रत्नम्। अन्यच्च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम् ॥१३-१०५-१२॥
धृतराष्ट्र उवाच॥
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र। स्वं वाहनं नयतो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त ॥१३-१०५-१३॥
गौतम उवाच॥
यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा। वैवस्वतस्य सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-१४॥
धृतराष्ट्र उवाच॥
ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः। यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-१५॥
गौतम उवाच॥
वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम्। यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-१६॥
धृतराष्ट्र उवाच॥
ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश्चरन्ति। तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-१७॥
गौतम उवाच॥
मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या। गन्धर्वयक्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-१८॥
धृतराष्ट्र उवाच॥
अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः। शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषयन्ति ॥१३-१०५-१९॥
गौतम उवाच॥
मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम्। सुदर्शना यत्र जम्बूर्विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-२०॥
धृतराष्ट्र उवाच॥
ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः। येऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः ॥१३-१०५-२१॥
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र। यद्विद्यते विदितं स्थानमस्ति; तद्ब्रूहि त्वं त्वरितो ह्येष यामि ॥१३-१०५-२२॥
गौतम उवाच॥
सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य। गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-२३॥
धृतराष्ट्र उवाच॥
ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति। तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-२४॥
गौतम उवाच॥
यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र। यत्राग्नियौनाश्च वसन्ति विप्रा; ह्ययोनयः पर्वतयोनयश्च ॥१३-१०५-२५॥
यत्र शक्रो वर्षति सर्वकामा; न्यत्र स्त्रियः कामचाराश्चरन्ति। यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-२६॥
धृतराष्ट्र उवाच॥
ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति। न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः ॥१३-१०५-२७॥
निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः। तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-२८॥
गौतम उवाच॥
ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः। सोमस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-२९॥
धृतराष्ट्र उवाच॥
ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः। येषामदेयमर्हते नास्ति किं चि; त्सर्वातिथ्याः सुप्रसादा जनाश्च ॥१३-१०५-३०॥
ये क्षन्तारो नाभिजल्पन्ति चान्या; ञ्शक्ता भूत्वा सततं पुण्यशीलाः। तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-३१॥
गौतम उवाच॥
ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः। आदित्यस्य सुमहान्तः सुवृत्ता; स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-३२॥
धृतराष्ट्र उवाच॥
स्वाध्यायशीला गुरुशुश्रूषणे रता; स्तपस्विनः सुव्रताः सत्यसन्धाः। आचार्याणामप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्वचोद्याः ॥१३-१०५-३३॥
तथाविधानामेष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम्। सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-३४॥
गौतम उवाच॥
ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः। वरुणस्य राज्ञः सदने महात्मन; स्तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-३५॥
धृतराष्ट्र उवाच॥
चातुर्मास्यैर्ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति। ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः ॥१३-१०५-३६॥
स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम्। धर्मात्मनामुद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-३७॥
गौतम उवाच॥
इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम्। तस्याहं ते भवने भूरितेजसो; राजन्निमं हस्तिनं यातयिष्ये ॥१३-१०५-३८॥
धृतराष्ट्र उवाच॥
शतवर्षजीवी यश्च शूरो मनुष्यो; वेदाध्यायी यश्च यज्वाप्रमत्तः। एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र ॥१३-१०५-३९॥
गौतम उवाच॥
प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः। मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-४०॥
धृतराष्ट्र उवाच॥
ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम्। ये चाश्वमेधावभृथाप्लुताङ्गा; स्तेषां लोका धृतराष्ट्रो न तत्र ॥१३-१०५-४१॥
गौतम उवाच॥
ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः। तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये ॥१३-१०५-४२॥
धृतराष्ट्र उवाच॥
यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच्च शक्त्या। तथा दशभ्यो यश्च दद्यादिहैकां; पञ्चभ्यो वा दानशीलस्तथैकाम् ॥१३-१०५-४३॥
ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव। मनस्विनस्तीर्थयात्रापरायणा; स्ते तत्र मोदन्ति गवां विमाने ॥१३-१०५-४४॥
प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः। पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ॥१३-१०५-४५॥
गयां गयशिरश्चैव विपाशां स्थूलवालुकाम्। तूष्णीङ्गङ्गां दशगङ्गां महाह्रदमथापि च ॥१३-१०५-४६॥
गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः। सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च ॥१३-१०५-४७॥
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः। प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥१३-१०५-४८॥
गौतम उवाच॥
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि। न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ॥१३-१०५-४९॥
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा। न जरामरणे वापि न पुण्यं न च पातकम् ॥१३-१०५-५०॥
तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते। स्वयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति ॥१३-१०५-५१॥
धृतराष्ट्र उवाच॥
निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः। अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः ॥१३-१०५-५२॥
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः। न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥१३-१०५-५३॥
गौतम उवाच॥
रथन्तरं यत्र बृहच्च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति। यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये ॥१३-१०५-५४॥
बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा। कच्चिन्न वाचा वृजिनं कदा चि; दकार्षं ते मनसोऽभिषङ्गात् ॥१३-१०५-५५॥
शक्र उवाच॥
यस्मादिमं लोकपथं प्रजाना; मन्वागमं पदवादे गजस्य। तस्माद्भवान्प्रणतं मानुशास्तु; ब्रवीषि यत्तत्करवाणि सर्वम् ॥१३-१०५-५६॥
गौतम उवाच॥
श्वेतं करेणुं मम पुत्रनागं; यं मेऽहार्षीर्दशवर्षाणि बालम्। यो मे वने वसतोऽभूद्द्वितीय; स्तमेव मे देहि सुरेन्द्र नागम् ॥१३-१०५-५७॥
शक्र उवाच॥
अयं सुतस्ते द्विजमुख्य नाग; श्चाघ्रायते त्वामभिवीक्षमाणः। पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश्च तेऽस्तु ॥१३-१०५-५८॥
गौतम उवाच॥
शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे। ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम् ॥१३-१०५-५९॥
शक्र उवाच॥
येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम्। तेषां त्वयैकेन महात्मनास्मि; बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ॥१३-१०५-६०॥
हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना। प्राप्नुहि त्वं शुभाँल्लोकानह्नाय च चिराय च ॥१३-१०५-६१॥
भीष्म उवाच॥
स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना। दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥१३-१०५-६२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.