13.106
अनशनमाहात्म्यम्
युधिष्ठिर उवाच॥
दानं बहुविधाकारं शान्तिः सत्यमहिंसता। स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ॥१३-१०६-१॥
पितामहस्य विदितं किमन्यत्र तपोबलात्। तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि ॥१३-१०६-२॥
भीष्म उवाच॥
तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर। मतं मम तु कौन्तेय तपो नानशनात्परम् ॥१३-१०६-३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ॥१३-१०६-४॥
अतीत्य सुरलोकं च गवां लोकं च भारत। ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ॥१३-१०६-५॥
तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम्। कथं भगीरथागास्त्वमिमं देशं दुरासदम् ॥१३-१०६-६॥
न हि देवा न गन्धर्वा न मनुष्या भगीरथ। आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥१३-१०६-७॥
भगीरथ उवाच॥
निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम्। ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम् ॥१३-१०६-८॥
दशैकरात्रान्दश पञ्चरात्रा; नेकादशैकादशकान्क्रतूंश्च। ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम् ॥१३-१०६-९॥
यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम्। अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम् ॥१३-१०६-१०॥
दशायुतानि चाश्वानामयुतानि च विंशतिम्। पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ॥१३-१०६-११॥
सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम्। षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन ॥१३-१०६-१२॥
दशार्बुदान्यददं गोसवेज्या; स्वेकैकशो दश गा लोकनाथ। समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन ॥१३-१०६-१३॥
अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम्। गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ॥१३-१०६-१४॥
दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह। प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ॥१३-१०६-१५॥
वाजिनां बाह्लिजातानामयुतान्यददं दश। कर्काणां हेममालानां न च तेनाहमागतः ॥१३-१०६-१६॥
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम्। एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ॥१३-१०६-१७॥
वाजिनां श्यामकर्णानां हरितानां पितामह। प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥१३-१०६-१८॥
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान्। पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ॥१३-१०६-१९॥
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः। रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ॥ सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ॥१३-१०६-२०॥
दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः। वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् ॥१३-१०६-२१॥
शक्रतुल्यप्रभावानामिज्यया विक्रमेण च। सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ॥१३-१०६-२२॥
विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह। अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥१३-१०६-२३॥
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते। दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥१३-१०६-२४॥
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते। वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ॥ तपस्वी नियताहारः शममास्थाय वाग्यतः ॥१३-१०६-२५॥
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्। मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ॥ न तेनाप्यहमागच्छं फलेनेह पितामह ॥१३-१०६-२६॥
शम्याक्षेपैरयजं यच्च देवा; न्सद्यस्कानामयुतैश्चापि यत्तत्। त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन ॥१३-१०६-२७॥
अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः। एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः ॥१३-१०६-२८॥
हिरण्यरत्ननिचितानददं रत्नपर्वतान्। धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ॥१३-१०६-२९॥
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः। इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥१३-१०६-३०॥
एकादशाहैरयजं सदक्षिणै; र्द्विर्द्वादशाहैरश्वमेधैश्च देव। आर्कायणैः षोडशभिश्च ब्रह्मं; स्तेषां फलेनेह न चागतोऽस्मि ॥१३-१०६-३१॥
निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम्। वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन ॥१३-१०६-३२॥
तुरायणं हि व्रतमप्रधृष्य; मक्रोधनोऽकरवं त्रिंशतोऽब्दान्। शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः ॥१३-१०६-३३॥
पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ। प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम् ॥१३-१०६-३४॥
त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा। अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥१३-१०६-३५॥
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः। न चैव तेषां देवेश फलेनाहमिहागतः ॥१३-१०६-३६॥
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे। गवां शतानामयुतमददं न च तेन वै ॥१३-१०६-३७॥
इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत्। जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम् ॥१३-१०६-३८॥
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते। सहस्रमृषयश्चासन्ये वै तत्र समागताः ॥ उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥१३-१०६-३९॥
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो। इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥१३-१०६-४०॥
कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत्। तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद ॥१३-१०६-४१॥
भीष्म उवाच॥
इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम्। पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥१३-१०६-४२॥