Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.107
आयुष्याख्यानम्
युधिष्ठिर उवाच॥
शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके। कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥१३-१०७-१॥
आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः। केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥१३-१०७-२॥
तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः। जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह ॥१३-१०७-३॥
भीष्म उवाच॥
अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि। अल्पायुर्येन भवति दीर्घायुर्वापि मानवः ॥१३-१०७-४॥
येन वा लभते कीर्तिं येन वा लभते श्रियम्। यथा च वर्तन्पुरुषः श्रेयसा सम्प्रयुज्यते ॥१३-१०७-५॥
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम्। आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥१३-१०७-६॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत्। त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ॥१३-१०७-७॥
तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः। अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥१३-१०७-८॥
आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः। साधूनां च यथा वृत्तमेतदाचारलक्षणम् ॥१३-१०७-९॥
अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम्। भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥१३-१०७-१०॥
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः। अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥१३-१०७-११॥
विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः। अल्पायुषो भवन्तीह नरा निरयगामिनः ॥१३-१०७-१२॥
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः। श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥१३-१०७-१३॥
अक्रोधनः सत्यवादी भूतानामविहिंसकः। अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥१३-१०७-१४॥
लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः। नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् ॥१३-१०७-१५॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्। उत्थायाचम्य तिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः ॥१३-१०७-१६॥
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः। नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥१३-१०७-१७॥
ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन्। तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ॥१३-१०७-१८॥
ये च पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम्। सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ॥१३-१०७-१९॥
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित्। न हीदृशमनायुष्यं लोके किञ्चन विद्यते ॥ यादृशं पुरुषस्येह परदारोपसेवनम् ॥१३-१०७-२०॥
प्रसाधनं च केशानामञ्जनं दन्तधावनम्। पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥१३-१०७-२१॥
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन। उदक्यया च सम्भाषां न कुर्वीत कदाचन ॥१३-१०७-२२॥
नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके। उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥१३-१०७-२३॥
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन्। प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥१३-१०७-२४॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः। धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥१३-१०७-२५॥
नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः। अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ॥१३-१०७-२६॥
शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत्। निषण्णश्चापि खादेत न तु गच्छन्कथञ्चन ॥१३-१०७-२७॥
मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे। आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत्। आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ॥१३-१०७-२९॥
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन। अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते ॥१३-१०७-३०॥
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन। सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥१३-१०७-३१॥
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥१३-१०७-३२॥
अभिवादयेत वृद्धांश्च आसनं चैव दापयेत्। कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥१३-१०७-३३॥
न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत्। नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ॥ स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ॥१३-१०७-३४॥
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः। केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ॥१३-१०७-३५॥
न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः। न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते ॥१३-१०७-३६॥
शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदुपस्पृशेत्। तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् ॥१३-१०७-३७॥
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन। वाते च पूतिगन्धे च मनसापि न चिन्तयेत् ॥१३-१०७-३८॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः। आयुरस्य निकृन्तामि प्रजामस्याददे तथा ॥१३-१०७-३९॥
य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति। यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ॥ तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन ॥१३-१०७-४०॥
प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान्। ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥१३-१०७-४१॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः। दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते ॥१३-१०७-४२॥
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः। ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥१३-१०७-४३॥
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा। क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥१३-१०७-४४॥
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च। तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥१३-१०७-४५॥
गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन। अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥१३-१०७-४६॥
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह। गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥१३-१०७-४७॥
दूरादावसथान्मूत्रं दूरात्पादावसेचनम्। उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥१३-१०७-४८॥
नातिकल्पं नातिसायं न च मध्यंदिने स्थिते। नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥१३-१०७-४९॥
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च। वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥१३-१०७-५०॥
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन्। चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् ॥१३-१०७-५१॥
मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा। चतुष्पथान्न सेवेत उभे सन्ध्ये तथैव च ॥१३-१०७-५२॥
उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत्। ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥१३-१०७-५३॥
अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः। अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ॥१३-१०७-५४॥
वृथा मांसं न खादेत पृष्ठमांसं तथैव च। आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥१३-१०७-५५॥
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥१३-१०७-५६॥
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥१३-१०७-५७॥
रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥१३-१०७-५८॥
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान्। रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ॥१३-१०७-५९॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्। द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ॥१३-१०७-६०॥
परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत्। अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् ॥१३-१०७-६१॥
न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत्। तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ॥१३-१०७-६२॥
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः। पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥१३-१०७-६३॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्। अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥१३-१०७-६४॥
संयावं कृसरं मांसं शष्कुली पायसं तथा। आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥१३-१०७-६५॥
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा। वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् ॥ न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् ॥१३-१०७-६६॥
मातापितरमुत्थाय पूर्वमेवाभिवादयेत्। आचार्यमथ वाप्येनं तथायुर्विन्दते महत् ॥१३-१०७-६७॥
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः। भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् ॥१३-१०७-६८॥
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः। अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन। अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥१३-१०७-७०॥
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः। न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥१३-१०७-७१॥
उदक्षिरा न स्वपेत तथा प्रत्यक्षिरा न च। प्राक्षिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः ॥१३-१०७-७२॥
न भग्ने नावदीर्णे वा शयने प्रस्वपेत च। नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ॥१३-१०७-७३॥
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन। स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ॥१३-१०७-७४॥
न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत्। आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ॥ स्रजश्च नावकर्षेत न बहिर्धारयेत च ॥१३-१०७-७५॥
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः। वर्जयित्वा तु कमलं तथा कुवलयं विभो ॥१३-१०७-७६॥
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि। काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् ॥ स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते ॥१३-१०७-७७॥
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः। तथा नान्यधृतं धार्यं न चापदशमेव च ॥१३-१०७-७८॥
अन्यदेव भवेद्वासः शयनीये नरोत्तम। अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥१३-१०७-७९॥
प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च। पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥१३-१०७-८०॥
उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः। पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ॥१३-१०७-८१॥
नालीढया परिहतं भक्षयीत कदाचन। तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च ॥१३-१०७-८२॥
न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च। प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः ॥१३-१०७-८३॥
पिप्पलं च वटं चैव शणशाकं तथैव च। उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ॥१३-१०७-८४॥
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत्। वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥१३-१०७-८५॥
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु। दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ॥१३-१०७-८६॥
वालेन तु न भुञ्जीत परश्राद्धं तथैव च। सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ॥१३-१०७-८७॥
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन। भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ॥१३-१०७-८८॥
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते। पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥१३-१०७-८९॥
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर। विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥१३-१०७-९०॥
पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि। निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् ॥१३-१०७-९१॥
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत्। दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ॥१३-१०७-९२॥
आचम्य चैव हस्तेन परिस्राव्य तथोदकम्। अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥१३-१०७-९३॥
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः। ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥१३-१०७-९४॥
अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च। स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥१३-१०७-९५॥
अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम्। कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥१३-१०७-९६॥
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत। तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ॥१३-१०७-९७॥
परापवादं न ब्रूयान्नाप्रियं च कदाचन। न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥१३-१०७-९८॥
पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत्। संसर्गं च न गच्छेत तथायुर्विन्दते महत् ॥१३-१०७-९९॥
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम्। न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् ॥१३-१०७-१००॥
स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते। त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥१३-१०७-१०१॥
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः। कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥१३-१०७-१०२॥
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव। प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ॥१३-१०७-१०३॥
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत्। निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥१३-१०७-१०४॥
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि। गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥१३-१०७-१०५॥
गृहे पारावता धन्याः शुकाश्च सहसारिकाः। गृहेष्वेते न पापाय तथा वै तैलपायिकाः ॥१३-१०७-१०६॥
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा। निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् ॥१३-१०७-१०७॥
अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम्। महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् ॥१३-१०७-१०८॥
अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा। वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ॥१३-१०७-१०९॥
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च। सम्बन्धिनां च राजेन्द्र तथायुर्विन्दते महत् ॥१३-१०७-११०॥
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम्। तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥१३-१०७-१११॥
सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत्। न भुञ्जीत च मेधावी तथायुर्विन्दते महत् ॥१३-१०७-११२॥
नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम्। पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥१३-१०७-११३॥
वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत। शेषाणि चावदातानि पानीयं चैव भोजने ॥१३-१०७-११४॥
सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत्। द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥१३-१०७-११५॥
महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा। वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति ॥१३-१०७-११६॥
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा। पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ॥१३-१०७-११७॥
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते। पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ॥१३-१०७-११८॥
शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च। नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः ॥ न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ॥१३-१०७-११९॥
दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत्। ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥१३-१०७-१२०॥
प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः। उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत् ॥१३-१०७-१२१॥
परिवादं न च ब्रूयात्परेषामात्मनस्तथा। परिवादो न धर्माय प्रोच्यते भरतर्षभ ॥१३-१०७-१२२॥
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम। समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा ॥१३-१०७-१२३॥
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम्। तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् ॥१३-१०७-१२४॥
अयोनिं च वियोनिं च न गच्छेत विचक्षणः। पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि ॥१३-१०७-१२५॥
अपस्मारिकुले जातां निहीनां चैव वर्जयेत्। श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ॥१३-१०७-१२६॥
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः। मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति ॥१३-१०७-१२७॥
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर। अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥१३-१०७-१२८॥
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः। वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥१३-१०७-१२९॥
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः। अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥१३-१०७-१३०॥
अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता। प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ॥१३-१०७-१३१॥
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा। यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ॥१३-१०७-१३२॥
सन्ध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत्। प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ॥१३-१०७-१३३॥
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप। देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥१३-१०७-१३४॥
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः। अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत ॥१३-१०७-१३५॥
न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि। अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ॥१३-१०७-१३६॥
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम्। हितं वाप्यहितं वापि न विचार्यं नरर्षभ ॥१३-१०७-१३७॥
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप। हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ॥ यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते ॥१३-१०७-१३८॥
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च। प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ॥१३-१०७-१३९॥
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत। गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥१३-१०७-१४०॥
पुराणमितिहासाश्च तथाख्यानानि यानि च। महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ॥१३-१०७-१४१॥
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत्। स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥१३-१०७-१४२॥
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत्। एतेन विधिना पत्नीमुपगच्छेत पण्डितः ॥१३-१०७-१४३॥
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि नित्यशः। यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ॥ अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥१३-१०७-१४४॥
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः। शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥१३-१०७-१४५॥
आचारो भूतिजनन आचारः कीर्तिवर्धनः। आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥१३-१०७-१४६॥
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते। आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥१३-१०७-१४७॥
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्। अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् ॥१३-१०७-१४८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.