Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.108
ज्येष्ठकनिष्ठवृत्तिः
युधिष्ठिर उवाच॥
यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ। कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥१३-१०८-१॥
भीष्म उवाच॥
ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान्। गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत ॥१३-१०८-२॥
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्। गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥१३-१०८-३॥
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः। परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥१३-१०८-४॥
प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः। श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः ॥१३-१०८-५॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः। हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ॥१३-१०८-६॥
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः। अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥१३-१०८-७॥
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम्। विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ॥१३-१०८-८॥
सर्वानर्थः कुले यत्र जायते पापपूरुषः। अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥१३-१०८-९॥
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः। नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥१३-१०८-१०॥
अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः। स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥१३-१०८-११॥
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह। न पुत्रभागं विषमं पिता दद्यात्कथञ्चन ॥१३-१०८-१२॥
न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा। यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् ॥ धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः ॥१३-१०८-१३॥
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश। दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ॥१३-१०८-१४॥
गौरवेणाभिभवति नास्ति मातृसमो गुरुः। माता गरीयसी यच्च तेनैतां मन्यते जनः ॥१३-१०८-१५॥
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत। स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् ॥१३-१०८-१६॥
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः। तमेव चोपजीवेरन्यथैव पितरं तथा ॥१३-१०८-१७॥
शरीरमेतौ सृजतः पिता माता च भारत। आचार्यशास्ता या जातिः सा सत्या साजरामरा ॥१३-१०८-१८॥
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ। भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥१३-१०८-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.