Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.109
उपवासविधिः
युधिष्ठिर उवाच॥
सर्वेषामेव वर्णानां म्लेच्छानां च पितामह। उपवासे मतिरियं कारणं च न विद्महे ॥१३-१०९-१॥
ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम्। उपवासे कथं तेषां कृत्यमस्ति पितामह ॥१३-१०९-२॥
नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव। अवाप्नोति गतिं कां च उपवासपरायणः ॥१३-१०९-३॥
उपवासः परं पुण्यमुपवासः परायणम्। उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥१३-१०९-४॥
अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम्। स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥१३-१०९-५॥
उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप। धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम् ॥१३-१०९-६॥
वैशम्पायन उवाच॥
एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित्। धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥१३-१०९-७॥
इदं खलु महाराज श्रुतमासीत्पुरातनम्। उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ ॥१३-१०९-८॥
प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत। यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥१३-१०९-९॥
प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः। उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥१३-१०९-१०॥
अङ्गिरा उवाच॥
ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन। द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ ॥१३-१०९-११॥
वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते। त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते ॥१३-१०९-१२॥
चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते। त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ॥१३-१०९-१३॥
पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत। क्षमावान्रूपसम्पन्नः श्रुतवांश्चैव जायते ॥१३-१०९-१४॥
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन। यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् ॥१३-१०९-१५॥
अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम्। उपोष्य व्याधिरहितो वीर्यवानभिजायते ॥१३-१०९-१६॥
मार्गशीर्षं तु यो मासमेकभक्तेन सङ्क्षिपेत्। भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः ॥१३-१०९-१७॥
सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः। कृषिभागी बहुधनो बहुपुत्रश्च जायते ॥१३-१०९-१८॥
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत्। सुभगो दर्शनीयश्च यशोभागी च जायते ॥१३-१०९-१९॥
पितृभक्तो माघमासमेकभक्तेन यः क्षपेत्। श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ॥१३-१०९-२०॥
भगदैवं तु यो मासमेकभक्तेन यः क्षपेत्। स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥१३-१०९-२१॥
चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत्। सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥१३-१०९-२२॥
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः। नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥१३-१०९-२३॥
ज्येष्ठामूलं तु यो मासमेकभक्तेन सङ्क्षपेत्। ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ॥१३-१०९-२४॥
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः। बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥१३-१०९-२५॥
श्रावणं नियतो मासमेकभक्तेन यः क्षपेत्। यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥१३-१०९-२६॥
प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः। धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥१३-१०९-२७॥
तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत्। प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥१३-१०९-२८॥
कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम्। शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥१३-१०९-२९॥
इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः। तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥१३-१०९-३०॥
पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत। गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ॥१३-१०९-३१॥
मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश। गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ॥१३-१०९-३२॥
एते तु नियमाः सर्वे कर्तव्याः शरदो दश। द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ॥१३-१०९-३३॥
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत्। अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥१३-१०९-३४॥
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः। अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥१३-१०९-३५॥
अधिवासे सोऽप्सरसां नृत्यगीतविनादिते। तप्तकाञ्चनवर्णाभं विमानमधिरोहति ॥१३-१०९-३६॥
पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते। तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥१३-१०९-३७॥
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः। अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ॥१३-१०९-३८॥
दशवर्षसहस्राणि स्वर्गे च स महीयते। तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥१३-१०९-३९॥
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते। अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः ॥१३-१०९-४०॥
वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते। त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ॥१३-१०९-४१॥
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत्। अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥१३-१०९-४२॥
चक्रवाकप्रयुक्तेन विमानेन स गच्छति। चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते ॥१३-१०९-४३॥
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप। गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥१३-१०९-४४॥
हंससारसयुक्तेन विमानेन स गच्छति। पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥१३-१०९-४५॥
पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु। षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् ॥ षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥१३-१०९-४६॥
वीणानां वल्लकीनां च वेणूनां च विशां पते। सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥१३-१०९-४७॥
संवत्सरमिहैकं तु मासि मासि पिबेत्पयः। फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥१३-१०९-४८॥
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति। सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥१३-१०९-४९॥
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते। विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥१३-१०९-५०॥
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः। पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥१३-१०९-५१॥
दिवं हंसप्रयुक्तेन विमानेन स गच्छति। शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ॥१३-१०९-५२॥
आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः। शतं वर्षसहस्राणां मोदते दिवि स प्रभो ॥ काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥१३-१०९-५३॥
सहस्रहंससंयुक्ते विमाने सोमवर्चसि। स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥१३-१०९-५४॥
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम्। व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥१३-१०९-५५॥
दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम्। न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ॥१३-१०९-५६॥
अतः स कामसंयुक्तो विमाने हेमसंनिभे। रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुभे ॥१३-१०९-५७॥
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः। अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥१३-१०९-५८॥
बालसूर्यप्रतीकाशे विमाने हेमवर्चसि। वैडूर्यमुक्ताखचिते वीणामुरजनादिते ॥१३-१०९-५९॥
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते। स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥१३-१०९-६०॥
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव। तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥१३-१०९-६१॥
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः। न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥१३-१०९-६२॥
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च। उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ॥१३-१०९-६३॥
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे। ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥१३-१०९-६४॥
दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता। क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ॥१३-१०९-६५॥
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः। सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥१३-१०९-६६॥
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम्। यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥१३-१०९-६७॥
इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्यङ्गिरसा महर्षिणा। पठेत यो वै शृणुयाच्च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम् ॥१३-१०९-६८॥
विमुच्यते चापि स सर्वसङ्करै; र्न चास्य दोषैरभिभूयते मनः। वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः ॥१३-१०९-६९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.