Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.110
उपवासफलम्
युधिष्ठिर उवाच॥
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना। गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥१३-११०-१॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह। बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥१३-११०-२॥
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह। नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥१३-११०-३॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत्। तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥१३-११०-४॥
भीष्म उवाच॥
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम्। विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥१३-११०-५॥
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत्। अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥१३-११०-६॥
षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः। तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥१३-११०-७॥
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते। प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ॥१३-११०-८॥
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम्। धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ॥१३-११०-९॥
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम्। सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ॥१३-११०-१०॥
सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः। क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥१३-११०-११॥
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे। द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ॥१३-११०-१२॥
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम्। सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१३-११०-१३॥
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्। मयूरहंससंयुक्तं विमानं लभते नरः ॥१३-११०-१४॥
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह। निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥१३-११०-१५॥
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम्। सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१३-११०-१६॥
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्। इन्द्रकन्याभिरूढं च विमानं लभते नरः ॥१३-११०-१७॥
सागरस्य च पर्यन्ते वासवं लोकमावसेत्। देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥१३-११०-१८॥
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम्। सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१३-११०-१९॥
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः। अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥१३-११०-२०॥
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम्। सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ॥१३-११०-२१॥
आवर्तनानि चत्वारि तथा पद्मानि द्वादश। शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥१३-११०-२२॥
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम्। सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१३-११०-२३॥
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः। गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥१३-११०-२४॥
अग्निज्वालासमाभासं हंसबर्हिणसेवितम्। शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ॥१३-११०-२५॥
तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते। नूपुराणां निनादेन मेखलानां च निस्वनैः ॥१३-११०-२६॥
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च। पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥१३-११०-२७॥
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च। लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥१३-११०-२८॥
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम्। सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१३-११०-२९॥
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन्। सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ॥१३-११०-३०॥
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति। तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥१३-११०-३१॥
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः। सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥१३-११०-३२॥
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः। देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥१३-११०-३३॥
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्। पद्मवर्णनिभं चैव विमानमधिरोहति ॥१३-११०-३४॥
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः। वयोरूपविलासिन्यो लभते नात्र संशयः ॥१३-११०-३५॥
यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि। सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१३-११०-३६॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः। पुण्डरीकप्रकाशं च विमानं लभते नरः ॥१३-११०-३७॥
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च। नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ॥१३-११०-३८॥
अष्टादशसहस्राणि वर्षाणां कल्पमेव च। कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥१३-११०-३९॥
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते। सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१३-११०-४०॥
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे। अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥१३-११०-४१॥
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम्। नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥१३-११०-४२॥
विमानं मण्डलावर्तमावर्तगहनावृतम्। सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ॥१३-११०-४३॥
विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः। स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ॥ आरोहति महद्यानं हंससारसवाहनम् ॥१३-११०-४४॥
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः। सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥१३-११०-४५॥
परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा। अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥१३-११०-४६॥
अभिगच्छेन्महादेवं विमानस्थं महाबलम्। स्वयम्भुवं च पश्येत विमानं समुपस्थितम् ॥१३-११०-४७॥
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम्। रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥१३-११०-४८॥
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत्। कोटीशतसहस्रं च दश कोटिशतानि च ॥१३-११०-४९॥
रुद्रं नित्यं प्रणमते देवदानवसंमतम्। स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥१३-११०-५०॥
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः। सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ॥१३-११०-५१॥
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते। मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ॥१३-११०-५२॥
हंसमालापरिक्षिप्तं नागवीथीसमाकुलम्। मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ॥१३-११०-५३॥
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम्। नित्यमावसते राजन्नरनारीसमावृतम् ॥ ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥१३-११०-५४॥
त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः। सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥१३-११०-५५॥
रक्तपद्मोदयं नाम विमानं साधयेन्नरः। जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ॥१३-११०-५६॥
देवकन्याभिराकीर्णं दिव्याभरणभूषितम्। पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ॥१३-११०-५७॥
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च। अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥१३-११०-५८॥
गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः। सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥१३-११०-५९॥
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः। सदा द्वादश मासान्वै महामेधफलं लभेत् ॥१३-११०-६०॥
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः। मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥१३-११०-६१॥
कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः। काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥१३-११०-६२॥
देवकन्यानिवासे च तस्मिन्वसति मानवः। जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥१३-११०-६३॥
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः। सदा दादश मासांस्तु जुह्वानो जातवेदसम् ॥ राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥१३-११०-६४॥
यानमारोहते नित्यं हंसबर्हिणसेवितम्। मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ॥१३-११०-६५॥
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम्। एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ॥ वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥१३-११०-६६॥
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति। मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ॥ वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥१३-११०-६७॥
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः। सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ॥१३-११०-६८॥
सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा। सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥१३-११०-६९॥
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च। अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥१३-११०-७०॥
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम्। आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥१३-११०-७१॥
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः। सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥१३-११०-७२॥
स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति। मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ॥१३-११०-७३॥
तत्र दैवतकन्याभिरासनेनोपचर्यते। भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ॥१३-११०-७४॥
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम्। द्वात्रिंशद्रूपधारिण्यो मधुराः समलङ्कृताः ॥१३-११०-७५॥
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो। तावच्चरत्यसौ वीरः सुधामृतरसाशनः ॥१३-११०-७६॥
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम्। सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥१३-११०-७७॥
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते। देवकन्याधिरूढैस्तु भ्राजमानैः स्वलङ्कृतैः ॥१३-११०-७८॥
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम्। विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ॥१३-११०-७९॥
तत्र कल्पसहस्रं स कान्ताभिः सह मोदते। सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥१३-११०-८०॥
एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम्। सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥१३-११०-८१॥
उत्तमं लभते स्थानमप्सरोगणसेवितम्। गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥१३-११०-८२॥
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः। दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥१३-११०-८३॥
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम्। सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥१३-११०-८४॥
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः। स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ॥१३-११०-८५॥
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः। विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ॥१३-११०-८६॥
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम्। सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥१३-११०-८७॥
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति। अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥१३-११०-८८॥
अनभिज्ञश्च दुःखानां विमानवरमास्थितः। सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥१३-११०-८९॥
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम्। सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥१३-११०-९०॥
धृतिमानहिंसानिरतः सत्यवागनसूयकः। लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥१३-११०-९१॥
कामचारी सुधाहारो विमानवरमास्थितः। रमते देवकन्याभिर्दिव्याभरणभूषितः ॥१३-११०-९२॥
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम्। सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ॥१३-११०-९३॥
वायोरुशनसश्चैव रुद्रलोकं च गच्छति। कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥१३-११०-९४॥
अनेकगुणपर्यन्तं विमानवरमास्थितः। रमते देवकन्याभिर्दिव्याभरणभूषितः ॥१३-११०-९५॥
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम्। सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥१३-११०-९६॥
आदित्यानामधीवासे मोदमानो वसेच्चिरम्। दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥१३-११०-९७॥
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे। रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥१३-११०-९८॥
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम्। सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥१३-११०-९९॥
सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः। रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥१३-११०-१००॥
देवकन्यासमारूढै राजतैर्विमलैः शुभैः। विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥१३-११०-१०१॥
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते। सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥१३-११०-१०२॥
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम्। सदा द्वादश मासांस्तु नियतो नियताशनः ॥१३-११०-१०३॥
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम्। स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ॥१३-११०-१०४॥
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते। विमाने स्फाटिके दिव्ये सर्वरत्नैरलङ्कृते ॥१३-११०-१०५॥
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते। द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥१३-११०-१०६॥
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम्। सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ॥१३-११०-१०७॥
फलं प्राप्नोति विपुलं देवलोके च पूज्यते। अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥१३-११०-१०८॥
देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम्। अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥१३-११०-१०९॥
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः। युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥१३-११०-११०॥
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम्। सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ॥१३-११०-१११॥
फलं देवर्षिचरितं विपुलं समुपाश्नुते। भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥१३-११०-११२॥
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः। पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥१३-११०-११३॥
रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे। सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥१३-११०-११४॥
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम्। सदा द्वादश मासान्वै सत्यव्रतपरायणः ॥१३-११०-११५॥
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः। विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥१३-११०-११६॥
जातरूपमयं युक्तं सर्वरत्नविभूषितम्। अप्सरोगणसम्पूर्णं गन्धर्वैरभिनादितम् ॥१३-११०-११७॥
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः। मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥१३-११०-११८॥
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः। दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥१३-११०-११९॥
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा। रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥१३-११०-१२०॥
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः। सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥१३-११०-१२१॥
सुधारसकृताहारः श्रीमान्सर्वमनोहरः। तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥१३-११०-१२२॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः। सुखेष्वभिरतो योगी दुःखानामविजानकः ॥१३-११०-१२३॥
स्वयम्प्रभाभिर्नारीभिर्विमानस्थो महीयते। रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥१३-११०-१२४॥
नानाविधसुरूपाभिर्नानारागाभिरेव च। नानामधुरभाषाभिर्नानारतिभिरेव च ॥१३-११०-१२५॥
विमाने नगराकारे सूर्यवत्सूर्यसंनिभे। पृष्ठतः सोमसङ्काशे उदक्चैवाभ्रसंनिभे ॥१३-११०-१२६॥
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले। ऊर्ध्वं चित्राभिसङ्काशे नैको वसति पूजितः ॥१३-११०-१२७॥
यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति। तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ॥१३-११०-१२८॥
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात्। वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥१३-११०-१२९॥
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम्। महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥१३-११०-१३०॥
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा। जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता ॥१३-११०-१३१॥
बहुभिर्नियमैरेवं मासानश्नाति यो नरः। अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥१३-११०-१३२॥
दिवं गत्वा शरीरेण स्वेन राजन्यथामरः। स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥१३-११०-१३३॥
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः। व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥१३-११०-१३४॥
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा। उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ॥ देवद्विजातिपूजायां रतो भरतसत्तम ॥१३-११०-१३५॥
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः। नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥१३-११०-१३६॥
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत। अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥१३-११०-१३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.