13.111
शौचानुपृच्छा
युधिष्ठिर उवाच॥
यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह। यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ॥१३-१११-१॥
भीष्म उवाच॥
सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम्। यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥१३-१११-२॥
अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे। स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ॥१३-१११-३॥
तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम्। अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥१३-१११-४॥
निर्ममा निरहङ्कारा निर्द्वंद्वा निष्परिग्रहाः। शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते ॥१३-१११-५॥
तत्त्ववित्त्वनहम्बुद्धिस्तीर्थं परममुच्यते। शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् ॥१३-१११-६॥
रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः। शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः ॥१३-१११-७॥
सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः। शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते ॥१३-१११-८॥
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते। स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः ॥१३-१११-९॥
अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः। शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥१३-१११-१०॥
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः। तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ॥१३-१११-११॥
वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम्। ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् ॥१३-१११-१२॥
मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च। स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः ॥१३-१११-१३॥
समारोपितशौचस्तु नित्यं भावसमन्वितः। केवलं गुणसम्पन्नः शुचिरेव नरः सदा ॥१३-१११-१४॥
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत। पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥१३-१११-१५॥
यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः। तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ॥१३-१११-१६॥
प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात्। धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् ॥१३-१११-१७॥
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा। अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा ॥१३-१११-१८॥
मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे। उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् ॥१३-१११-१९॥
यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता। नेह साधयते कार्यं समायुक्तस्तु सिध्यति ॥१३-१११-२०॥
एवं शरीरशौचेन तीर्थशौचेन चान्वितः। ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥१३-१११-२१॥