Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.112
संसारचक्रम्
युधिष्ठिर उवाच॥
पितामह महाबाहो सर्वशास्त्रविशारद। श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ॥१३-११२-१॥
केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि। प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ॥१३-११२-२॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः। प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥१३-११२-३॥
भीष्म उवाच॥
असावायाति भगवान्बृहस्पतिरुदारधीः। पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥१३-११२-४॥
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै। वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥१३-११२-५॥
वैशम्पायन उवाच॥
तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा। आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥१३-११२-६॥
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः। पूजामनुपमां चक्रे सर्वे ते च सभासदः ॥१३-११२-७॥
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम्। उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः ॥१३-११२-८॥
युधिष्ठिर उवाच॥
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद। मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥१३-११२-९॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः। गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ॥१३-११२-१०॥
बृहस्पतिरुवाच॥
एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति। एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ॥१३-११२-११॥
असहायः पिता माता तथा भ्राता सुतो गुरुः। ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥१३-११२-१२॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः। मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः ॥ तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ॥१३-११२-१३॥
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः। प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् ॥ तथैवाधर्मसंयुक्तो नरकायोपपद्यते ॥१३-११२-१४॥
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः। धर्म एको मनुष्याणां सहायः पारलौकिकः ॥१३-११२-१५॥
लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः। नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥१३-११२-१६॥
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम्। एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥१३-११२-१७॥
युधिष्ठिर उवाच॥
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम्। शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते ॥१३-११२-१८॥
मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम्। अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥१३-११२-१९॥
बृहस्पतिरुवाच॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥१३-११२-२०॥
प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम्। एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति ॥१३-११२-२१॥
त्वगस्थिमांसं शुक्रं च शोणितं च महामते। शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥१३-११२-२२॥
ततो धर्मसमायुक्तः स जीवः सुखमेधते। इह लोके परे चैव किं भूयः कथयामि ते ॥१३-११२-२३॥
युधिष्ठिर उवाच॥
अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति। एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥१३-११२-२४॥
बृहस्पतिरुवाच॥
अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर। पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥१३-११२-२५॥
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु। मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ॥१३-११२-२६॥
ततो गर्भः सम्भवति स्त्रीपुंसोः पार्थ सङ्गमे। एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥१३-११२-२७॥
युधिष्ठिर उवाच॥
आख्यातमेतद्भवता गर्भः सञ्जायते यथा। यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥१३-११२-२८॥
बृहस्पतिरुवाच॥
आसन्नमात्रः सततं तैर्भूतैरभिभूयते। विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् ॥ स तु भूतसमायुक्तः प्राप्नुते जीव एव ह ॥१३-११२-२९॥
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम्। देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥१३-११२-३०॥
युधिष्ठिर उवाच॥
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः। जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥१३-११२-३१॥
बृहस्पतिरुवाच॥
जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः। स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ॥१३-११२-३२॥
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम्। दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥१३-११२-३३॥
इहलोके च स प्राणी जन्मप्रभृति पार्थिव। स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥१३-११२-३४॥
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते। ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥१३-११२-३५॥
अथान्तरा तु धर्मस्य अधर्ममुपसेवते। सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥१३-११२-३६॥
अधर्मेण समायुक्तो यमस्य विषयं गतः। महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥१३-११२-३७॥
कर्मणा येन येनेह यस्यां योनौ प्रजायते। जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥१३-११२-३८॥
यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि। यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ॥१३-११२-३९॥
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः। पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥१३-११२-४०॥
खरो जीवति वर्षाणि दश पञ्च च भारत। खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥१३-११२-४१॥
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः। ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः ॥१३-११२-४२॥
पतितं याजयित्वा तु कृमियोनौ प्रजायते। तत्र जीवति वर्षाणि दश पञ्च च भारत ॥१३-११२-४३॥
कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः। गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः ॥ श्वा वर्षमेकं भवति ततो जायति मानवः ॥१३-११२-४४॥
उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान्। स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥१३-११२-४५॥
प्राक्ष्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः। ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः ॥१३-११२-४६॥
मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत्। सोऽधमान्याति संसारानधर्मेणेह चेतसा ॥१३-११२-४७॥
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति। तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥१३-११२-४८॥
कृमिभावमनुप्राप्तो वर्षमेकं स जीवति। ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥१३-११२-४९॥
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे। आत्मनः कामकारेण सोऽपि हंसः प्रजायते ॥१३-११२-५०॥
पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते। सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः ॥१३-११२-५१॥
खरो जीवति मासांस्तु दश श्वा च चतुर्दश। बिडालः सप्त मासांस्तु ततो जायति मानवः ॥१३-११२-५२॥
मातापितरमाक्रुश्य सारिकः सम्प्रजायते। ताडयित्वा तु तावेव जायते कच्छपो नृप ॥१३-११२-५३॥
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः। व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥१३-११२-५४॥
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते। सोऽपि मोहसमापन्नो मृतो जायति वानरः ॥१३-११२-५५॥
वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः। श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः ॥१३-११२-५६॥
न्यासापहर्ता तु नरो यमस्य विषयं गतः। संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥१३-११२-५७॥
तत्र जीवति वर्षाणि दश पञ्च च भारत। दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः ॥१३-११२-५८॥
असूयको नरश्चापि मृतो जायति शार्ङ्गकः। विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥१३-११२-५९॥
भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत। मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥१३-११२-६०॥
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः। कीटः सञ्जायते जन्तुस्ततो जायति मानुषः ॥१३-११२-६१॥
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्। कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥१३-११२-६२॥
सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः। स जायते महाराज मूषको निरपत्रपः ॥१३-११२-६३॥
ततः प्रेत्य महाराज पुनर्जायति सूकरः। सूकरो जातमात्रस्तु रोगेण म्रियते नृप ॥१३-११२-६४॥
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव। श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः ॥१३-११२-६५॥
परदाराभिमर्शं तु कृत्वा जायति वै वृकः। श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥१३-११२-६६॥
भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः। पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥१३-११२-६७॥
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च। प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥१३-११२-६८॥
सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः। पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च ॥ एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥१३-११२-६९॥
तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश। ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः ॥१३-११२-७०॥
उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो। मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥१३-११२-७१॥
कृमिर्जीवति वर्षाणि दश पञ्च च भारत। अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥१३-११२-७२॥
पूर्वं दत्त्वा तु यः कन्यां द्वितीये सम्प्रयच्छति। सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥१३-११२-७३॥
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर। अधर्मसङ्क्षये युक्तस्ततो जायति मानुषः ॥१३-११२-७४॥
देवकार्यमुपाकृत्य पितृकार्यमथापि च। अनिर्वाप्य समश्नन्वै ततो जायति वायसः ॥१३-११२-७५॥
वायसो दश वर्षाणि ततो जायति कुक्कुटः। जायते लवकश्चापि मासं तस्मात्तु मानुषः ॥१३-११२-७६॥
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते। सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥१३-११२-७७॥
क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च। ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥१३-११२-७८॥
वृषलो ब्राह्मणीं गत्वा कृमiyoनौ प्रजायते। तत्रापत्यं समुत्पाद्य ततो जायति मूषकः ॥१३-११२-७९॥
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः। यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् ॥१३-११२-८०॥
पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम्। असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ॥१३-११२-८१॥
एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः। यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥१३-११२-८२॥
संसारचक्रमासाद्य कृमियोनौ प्रजायते। कृमिर्भवति वर्षाणि दश पञ्च च भारत ॥ ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥१३-११२-८३॥
ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रजायते। संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते ॥१३-११२-८४॥
मृतो दुःखमनुप्राप्य बहुवर्षगणानिह। अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते ॥१३-११२-८५॥
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः। अर्थार्थी यदि वा वैरी स मृतो जायते खरः ॥१३-११२-८६॥
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते। स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥१३-११२-८७॥
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः। हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥१३-११२-८८॥
मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते। श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥१३-११२-८९॥
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः। अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥१३-११२-९०॥
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः। बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ॥१३-११२-९१॥
ततः पश्चान्महाराज कृमियोनौ प्रजायते। कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ॥१३-११२-९२॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः। मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ॥ ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ॥१३-११२-९३॥
वाद्यं हृत्वा तु पुरुषो मशकः सम्प्रजायते। तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः ॥ स जायते बभ्रुसमो दारुणो मूषको नरः ॥१३-११२-९४॥
लवणं चोरयित्वा तु चीरीवाकः प्रजायते। दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ॥१३-११२-९५॥
चोरयित्वा पयश्चापि बलाका सम्प्रजायते। यस्तु चोरयते तैलं तैलपायी प्रजायते ॥ चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते ॥१३-११२-९६॥
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः। पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ॥१३-११२-९७॥
हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते। फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ॥१३-११२-९८॥
कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः। राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ॥१३-११२-९९॥
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते। क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः ॥१३-११२-१००॥
चोरयित्वा नरः पट्टं त्वाविकं वापि भारत। क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ॥१३-११२-१०१॥
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः। हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ॥१३-११२-१०२॥
वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः। छुच्छुन्दरित्वमाप्नोति राजँल्लोभपरायणः ॥१३-११२-१०३॥
विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः। स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते ॥१३-११२-१०४॥
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः। मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥१३-११२-१०५॥
पापानि तु नरः कृत्वा तिर्यग्जायति भारत। न चात्मनः प्रमाणं ते धर्मं जानन्ति किञ्चन ॥१३-११२-१०६॥
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा। सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत ॥१३-११२-१०७॥
असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः। नराः पापसमाचारा लोभमोहसमन्विताः ॥१३-११२-१०८॥
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः। अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥१३-११२-१०९॥
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः। एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः ॥१३-११२-११०॥
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः। एतद्वै लेशमात्रेण कथितं ते मयानघ ॥ अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ॥१३-११२-१११॥
एतन्मया महाराज ब्रह्मणो वदतः पुरा। सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ॥१३-११२-११२॥
मयापि तव कार्त्स्न्येन यथावदनुवर्णितम्। एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥१३-११२-११३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.