13.113
युधिष्ठिर उवाच॥
अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ। धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ॥ कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ॥१३-११३-१॥
बृहस्पतिरुवाच॥
कृत्वा पापानि कर्माणि अधर्मवशमागतः। मनसा विपरीतेन निरयं प्रतिपद्यते ॥१३-११३-२॥
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते। मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥१३-११३-३॥
यथा यथा नरः सम्यगधर्ममनुभाषते। समाहितेन मनसा विमुच्यति तथा तथा ॥ भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥१३-११३-४॥
अदत्त्वापि प्रदानानि विविधानि समाहितः। मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥१३-११३-५॥
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर। नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ॥१३-११३-६॥
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्। पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥१३-११३-७॥
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते। अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ॥१३-११३-८॥
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः। अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ॥१३-११३-९॥
न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम्। स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥१३-११३-१०॥
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश। हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥१३-११३-११॥
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ। नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ॥१३-११३-१२॥
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः। स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ॥१३-११३-१३॥
अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च। क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥१३-११३-१४॥
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः। तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ॥१३-११३-१५॥
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम्। वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥१३-११३-१६॥
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम्। अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥१३-११३-१७॥
औरसेन बलेनान्नमर्जयित्वाविहिंसकः। यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ॥१३-११३-१८॥
न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः। द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥१३-११३-१९॥
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः। सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ॥१३-११३-२०॥
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः। ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥१३-११३-२१॥
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम्। कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ॥१३-११३-२२॥
अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते। तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥१३-११३-२३॥
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा। अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥१३-११३-२४॥
भोजयित्वा दशशतं नरो वेदविदां नृप। न्यायविद्धर्मविदुषामितिहासविदां तथा ॥१३-११३-२५॥
न याति नरकं घोरं संसारांश्च न सेवते। सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् ॥१३-११३-२६॥
एवं सुखसमायुक्तो रमते विगतज्वरः। रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥१३-११३-२७॥
एतत्ते सर्वमाख्यातमन्नदानफलं महत्। मूलमेतद्धि धर्माणां प्रदानस्य च भारत ॥१३-११३-२८॥