13.125
सान्त्वप्रशंसा
युधिष्ठिर उवाच॥
साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम्। प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥१३-१२५-१॥
भीष्म उवाच॥
साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः। पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥१३-१२५-२॥
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ। दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥१३-१२५-३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥१३-१२५-४॥
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने। गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥१३-१२५-५॥
स बुद्धिश्रुतसम्पन्नस्तं दृष्ट्वातीव भीषणम्। सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥१३-१२५-६॥
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम्। मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥१३-१२५-७॥
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तस्य रक्षसः। आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ॥१३-१२५-८॥
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः। विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥१३-१२५-९॥
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि। स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥१३-१२५-१०॥
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः। अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥१३-१२५-११॥
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान्। प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ॥१३-१२५-१२॥
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन्। माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ॥१३-१२५-१३॥
सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः। जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥१३-१२५-१४॥
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः। मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ॥१३-१२५-१५॥
प्राज्ञैः सम्भावितो नूनं नप्राज्ञैरुपसंहितः। ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ॥१३-१२५-१६॥
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन्। वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥१३-१२५-१७॥
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती। तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥१३-१२५-१८॥
असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम्। गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥१३-१२५-१९॥
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः। महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥१३-१२५-२०॥
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम्। बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ॥१३-१२५-२१॥
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम्। न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥१३-१२५-२२॥
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम्। अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ॥१३-१२५-२३॥
नूनमासञ्जयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते। कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ॥१३-१२५-२४॥
नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम्। मयार्थ इति जानाति तेनासि हरिणः कृशः ॥१३-१२५-२५॥
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि। विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥१३-१२५-२६॥
नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि। ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ॥१३-१२५-२७॥
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम्। यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥१३-१२५-२८॥
चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते। कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥१३-१२५-२९॥
नूनमात्मकृतं दोषमपश्यन्किञ्चिदात्मनि। अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ॥१३-१२५-३०॥
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम्। दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥१३-१२५-३१॥
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान्। मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥१३-१२५-३२॥
धर्म्यमर्थं च काले च देशे चाभिहितं वचः। न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥१३-१२५-३३॥
दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः। प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥१३-१२५-३४॥
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः। ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ॥१३-१२५-३५॥
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि। सुहृदामविरोधेन तेनासि हरिणः कृशः ॥१३-१२५-३६॥
श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान्। मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥१३-१२५-३७॥
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत्। सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ॥१३-१२५-३८॥