13.126
उमामहेश्वरसंवादः
युधिष्ठिर उवाच॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारद। आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ॥१३-१२६-१॥
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम्। आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ॥१३-१२६-२॥
अयं च कालः सम्प्राप्तो दुर्लभज्ञातिबान्धवः। शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ॥१३-१२६-३॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ। वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ॥१३-१२६-४॥
अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः। भवन्तं बहुमानेन प्रश्रयेण च सेवते ॥१३-१२६-५॥
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः। भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ॥१३-१२६-६॥
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा स्नेहादागतसम्भ्रमः। भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ॥१३-१२६-७॥
हन्त ते कथयिष्यामि कथामतिमनोरमाम्। अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ॥१३-१२६-८॥
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु। रुद्राण्याः संशयो यश्च दम्पत्योस्तं च मे शृणु ॥१३-१२६-९॥
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम्। दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ॥१३-१२६-१०॥
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः। देवलः काश्यपश्चैव हस्तिकाश्यप एव च ॥१३-१२६-११॥
अपरे ऋषयः सन्तो दीक्षादमसमन्विताः। शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ॥१३-१२६-१२॥
तेषामतिथिसत्कारमर्चनीयं कुलोचितम्। देवकीतनयः प्रीतो देवकल्पमकल्पयत् ॥१३-१२६-१३॥
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च। उपोपविविशुः प्रीता विष्टरेषु महर्षयः ॥१३-१२६-१४॥
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः। राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ॥१३-१२६-१५॥
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम्। वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ॥१३-१२६-१६॥
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम्। सपक्षिमृगसङ्घातं सश्वापदसरीसृपम् ॥१३-१२६-१७॥
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम्। शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ॥१३-१२६-१८॥
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः। विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ॥१३-१२६-१९॥
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः। सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ॥१३-१२६-२०॥
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः। सपक्षिगणसङ्घुष्टः सश्वापदसरीसृपः ॥१३-१२६-२१॥
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा। विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः ॥१३-१२६-२२॥
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान्। प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ॥१३-१२६-२३॥
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः। निर्ममस्यागमवतो विस्मयः समुपागतः ॥१३-१२६-२४॥
एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः। ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ॥१३-१२६-२५॥
ऋषय ऊचुः॥
भवान्विसृजते लोकान्भवान्संहरते पुनः। भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ॥१३-१२६-२६॥
पृथिव्यां यानि भूतानि स्थावराणि चराणि च। तेषां पिता त्वं माता च प्रभुः प्रभव एव च ॥१३-१२६-२७॥
एतन्नो विस्मयकरं प्रशंस मधुसूदन। त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ॥१३-१२६-२८॥
ततो विगतसन्त्रासा वयमप्यरिकर्शन। यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ॥१३-१२६-२९॥
वासुदेव उवाच॥
एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम्। कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ॥१३-१२६-३०॥
ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः। भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ॥१३-१२६-३१॥
व्रतचर्यापरीतस्य तपस्विव्रतसेवया। मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ॥१३-१२६-३२॥
व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम्। पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ॥१३-१२६-३३॥
ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः। गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ॥१३-१२६-३४॥
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः। तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ॥१३-१२६-३५॥
सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम्। शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ॥१३-१२६-३६॥
एतदस्य रहस्यं वः पद्मनाभस्य धीमतः। मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ॥१३-१२६-३७॥
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः। तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ॥१३-१२६-३८॥
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि। आश्चर्यं परमं किञ्चित्तद्भवन्तो ब्रुवन्तु मे ॥१३-१२६-३९॥
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा। भवद्भिः कथितस्येह तपोवननिवासिभिः ॥१३-१२६-४०॥
यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम्। दिवि वा भुवि वा किञ्चित्पश्याम्यमलदर्शनाः ॥१३-१२६-४१॥
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते। न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ॥१३-१२६-४२॥
श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः। चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ॥१३-१२६-४३॥
तदहं सज्जनमुखान्निःसृतं तत्समागमे। कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ॥१३-१२६-४४॥
ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ। नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ॥१३-१२६-४५॥
वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे। वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ॥१३-१२६-४६॥
ततो मुनिगणाः सर्वे नारदं देवदर्शनम्। तदा नियोजयामासुर्वचने वाक्यकोविदम् ॥१३-१२६-४७॥
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो। अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ॥१३-१२६-४८॥
तद्भवानृषिसङ्घस्य हितार्थं सर्वचोदितः। यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ॥१३-१२६-४९॥
एवमुक्तः स मुनिभिर्नारदो भगवानृषिः। कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ॥१३-१२६-५०॥