Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.127
भीष्म उवाच॥
ततो नारायणसुहृन्नारदो भगवानृषिः। शङ्करस्योमया सार्धं संवादं प्रत्यभाषत ॥१३-१२७-१॥
तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः। पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥१३-१२७-२॥
नानौषधियुते रम्ये नानापुष्पसमाकुले। अप्सरोगणसङ्कीर्णे भूतसङ्घनिषेविते ॥१३-१२७-३॥
तत्र देवो मुदा युक्तो भूतसङ्घशतैर्वृतः। नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ॥१३-१२७-४॥
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः। क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा ॥१३-१२७-५॥
उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा। नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः ॥ किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ॥१३-१२७-६॥
दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम्। दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ॥ तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् ॥१३-१२७-७॥
मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम्। नृत्यद्भिर्भूतसङ्घैश्च बर्हिणैश्च समन्ततः ॥१३-१२७-८॥
प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम्। दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ॥१३-१२७-९॥
स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत। स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः। षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः ॥१३-१२७-११॥
तं महोत्सवसङ्काशं भीमरूपधरं पुनः। दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन ॥१३-१२७-१२॥
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः। मरुतो वसवः साध्या विश्वेदेवाः सनातनाः ॥१३-१२७-१३॥
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः। भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ॥१३-१२७-१४॥
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः। ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ॥१३-१२७-१५॥
विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह। गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ॥१३-१२७-१६॥
तत्र देवो गिरितटे दिव्यधातुविभूषिते। पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः ॥१३-१२७-१७॥
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः। व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ॥१३-१२७-१८॥
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम्। अभयः सर्वभूतानां भक्तानां वृषभध्वजः ॥१३-१२७-१९॥
दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः। विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः ॥१३-१२७-२०॥
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ। अप्रधृष्यतरं चैव महोरगसमाकुलम् ॥१३-१२७-२१॥
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन। तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ ॥१३-१२७-२२॥
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता। हरतुल्याम्बरधरा समानव्रतचारिणी ॥१३-१२७-२३॥
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम्। गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ॥१३-१२७-२४॥
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा। सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ॥१३-१२७-२५॥
ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना। हरनेत्रे शुभे देवी सहसा सा समावृणोत् ॥१३-१२७-२६॥
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम्। निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् ॥१३-१२७-२७॥
जनश्च विमनाः सर्वो भयत्राससमन्वितः। निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ॥१३-१२७-२८॥
ततो वितिमिरो लोकः क्षणेन समपद्यत। ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ॥१३-१२७-२९॥
तृतीयं चास्य सम्भूतं नेत्रमादित्यसंनिभम्। युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ॥१३-१२७-३०॥
ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम्। हरं प्रणम्य शिरसा ददर्शायतलोचना ॥१३-१२७-३१॥
दह्यमाने वने तस्मिन्सशालसरलद्रुमे। सचन्दनवने रम्ये दिव्यौषधिविदीपिते ॥१३-१२७-३२॥
मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः। शरणं चाप्यविन्दद्भिस्तत्सदः सङ्कुलं बभौ ॥१३-१२७-३३॥
ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः। द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ॥१३-१२७-३४॥
क्षणेन तेन दग्धः स हिमवानभवन्नगः। सधातुशिखराभोगो दीनदग्धवनौषधिः ॥१३-१२७-३५॥
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः। भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ॥१३-१२७-३६॥
उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम्। पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् ॥१३-१२७-३७॥
ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः। प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ॥१३-१२७-३८॥
प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम्। उवाच सर्वभूतानां पतिं पतिमनिन्दिता ॥१३-१२७-३९॥
भगवन्सर्वभूतेश शूलपाणे महाव्रत। संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि ॥१३-१२७-४०॥
किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम्। किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ॥१३-१२७-४१॥
किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः। तथैव द्रुमसञ्छन्नः कृतोऽयं ते महेश्वर ॥१३-१२७-४२॥
महेश्वर उवाच॥
नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते। नष्टालोकस्ततो लोकः क्षणेन समपद्यत ॥१३-१२७-४३॥
नष्टादित्ये तथा लोके तमोभूते नगात्मजे। तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ॥१३-१२७-४४॥
तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः। त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः ॥१३-१२७-४५॥
उमोवाच॥
भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम्। पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ॥१३-१२७-४६॥
दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः। केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः ॥१३-१२७-४७॥
हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति। जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ॥१३-१२७-४८॥
एतं मे संशयं सर्वं वद भूतपतेऽनघ। सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ॥१३-१२७-४९॥
एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक्। तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ॥१३-१२७-५०॥
ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति। हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ॥१३-१२७-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.