Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.128
महेश्वर उवाच॥
तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा। तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ॥१३-१२८-१॥
साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि। प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ॥१३-१२८-२॥
यतो यतः सा सुदती मामुपाधावदन्तिके। ततस्ततो मुखं चारु मम देवि विनिर्गतम् ॥१३-१२८-३॥
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः। चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ॥१३-१२८-४॥
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह। उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ॥१३-१२८-५॥
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम्। दक्षिणं भीमसङ्काशं रौद्रं संहरति प्रजाः ॥१३-१२८-६॥
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया। देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् ॥१३-१२८-७॥
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम। दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ॥१३-१२८-८॥
उमोवाच॥
वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते। कथं गोवृषभो देव वाहनत्वमुपागतः ॥१३-१२८-९॥
महेश्वर उवाच॥
सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम्। सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ॥१३-१२८-१०॥
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः। ततो दग्धा मया गावो नानावर्णत्वमागताः ॥१३-१२८-११॥
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना। वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च ॥१३-१२८-१२॥
उमोवाच॥
निवासा बहुरूपास्ते विश्वरूपगुणान्विताः। तांश्च सन्त्यज्य भगवञ्श्मशाने रमसे कथम् ॥१३-१२८-१३॥
केशास्थिकलिले भीमे कपालघटसङ्कुले। गृध्रगोमायुकलिले चिताग्निशतसङ्कुले ॥१३-१२८-१४॥
अशुचौ मांसकलिले वसाशोणितकर्दमे। विनिकीर्णामिषचये शिवानादविनादिते ॥१३-१२८-१५॥
महेश्वर उवाच॥
मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम्। न च मेध्यतरं किञ्चिच्छ्मशानादिह विद्यते ॥१३-१२८-१६॥
तेन मे सर्ववासानां श्मशाने रमते मनः। न्यग्रोधशाखासञ्छन्ने निर्भुक्तस्रग्विभूषिते ॥१३-१२८-१७॥
तत्र चैव रमन्ते मे भूतसङ्घाः शुभानने। न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे ॥१३-१२८-१८॥
एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे। पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ॥१३-१२८-१९॥
उमोवाच॥
भगवन्सर्वभूतेश सर्वधर्मभृतां वर। पिनाकपाणे वरद संशयो मे महानयम् ॥१३-१२८-२०॥
अयं मुनिगणः सर्वस्तपस्तप इति प्रभो। तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ॥१३-१२८-२१॥
अस्य चैवर्षिसङ्घस्य मम च प्रियकाम्यया। एतं ममेह संदेहं वक्तुमर्हस्यरिंदम ॥१३-१२८-२२॥
धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः। शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ॥१३-१२८-२३॥
नारद उवाच॥
ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत्। वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर ॥१३-१२८-२४॥
महेश्वर उवाच॥
अहिंसा सत्यवचनं सर्वभूतानुकम्पनम्। शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥१३-१२८-२५॥
परदारेष्वसङ्कल्पो न्यासस्त्रीपरिरक्षणम्। अदत्तादानविरमो मधुमांसस्य वर्जनम् ॥१३-१२८-२६॥
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः। देहिभिर्धर्मपरमैः कर्तव्यो धर्मसञ्चयः ॥१३-१२८-२७॥
उमोवाच॥
भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि। चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ॥१३-१२८-२८॥
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत्। वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् ॥१३-१२८-२९॥
महेश्वर उवाच॥
न्यायतस्ते महाभागे संशयः समुदीरितः। भूमिदेवा महाभागाः सदा लोके द्विजातयः ॥१३-१२८-३०॥
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः। स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥१३-१२८-३१॥
तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः। तथोपनयनं चैव द्विजायैवोपपद्यते ॥१३-१२८-३२॥
गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः। देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसम्भवः ॥१३-१२८-३३॥
उमोवाच॥
भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि। चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय ॥१३-१२८-३४॥
महेश्वर उवाच॥
रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम्। व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् ॥१३-१२८-३५॥
भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता। नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा ॥१३-१२८-३६॥
गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः। विन्देतानन्तरं भार्यामनुरूपां यथाविधि ॥१३-१२८-३७॥
शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम्। धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च ॥१३-१२८-३८॥
आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः। विघसाशी यताहारो गृहस्थः सत्यवाक्षुचिः ॥१३-१२८-३९॥
अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम्। इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ॥१३-१२८-४०॥
यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु। अपूर्वभोजनं धर्मो विघसाशित्वमेव च ॥१३-१२८-४१॥
भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते। ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ॥१३-१२८-४२॥
दम्पत्योः समशीलत्वं धर्मश्च गृहमेधिनाम्। गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया ॥१३-१२८-४३॥
नित्योपलेपनं धर्मस्तथा नित्योपवासिता। सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे ॥१३-१२८-४४॥
एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः। द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते ॥१३-१२८-४५॥
यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः। तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ॥१३-१२८-४६॥
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः। निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥१३-१२८-४७॥
प्रजाः पालयते यो हि धर्मेण मनुजाधिपः। तस्य धर्मार्जिता लोकाः प्रजापालनसञ्चिताः ॥१३-१२८-४८॥
तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च। अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥१३-१२८-४९॥
यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा। भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥१३-१२८-५०॥
सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः। व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा ॥१३-१२८-५१॥
आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते। गोब्राह्मणार्थे विक्रान्तः सङ्ग्रामे निधनं गतः ॥ अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये ॥१३-१२८-५२॥
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा। अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥१३-१२८-५३॥
वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः। विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ॥१३-१२८-५४॥
तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित्। वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ॥१३-१२८-५५॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः। शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु ॥१३-१२८-५६॥
स शूद्रः संशिततपाः सत्यसन्धो जितेन्द्रियः। शुश्रूषन्नतिथिं प्राप्तं तपः सञ्चिनुते महत् ॥१३-१२८-५७॥
त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः। शूद्रो धर्मफलैरिष्टैः सम्प्रयुज्येत बुद्धिमान् ॥१३-१२८-५८॥
एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने। एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ॥१३-१२८-५९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.