Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.129
उमोवाच॥
उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः। सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ॥१३-१२९-१॥
महेश्वर उवाच॥
ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना। लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ॥१३-१२९-२॥
तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम्। ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥१३-१२९-३॥
इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयम्भुवा। पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ॥१३-१२९-४॥
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः। शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥१३-१२९-५॥
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः। त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥१३-१२९-६॥
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः। वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ॥१३-१२९-७॥
यजनं याजनं चैव तथा दानप्रतिग्रहौ। अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः ॥१३-१२९-८॥
नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः। दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ॥१३-१२९-९॥
अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः। गृहस्थता विशुद्धानां धर्मस्य निचयो महान् ॥१३-१२९-१०॥
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः। दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥१३-१२९-११॥
अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा। अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ॥१३-१२९-१२॥
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा। दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ॥१३-१२९-१३॥
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च। सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ॥१३-१२९-१४॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्। शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ॥१३-१२९-१५॥
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते। तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ॥१३-१२९-१६॥
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा। पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ॥१३-१२९-१७॥
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्। कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥१३-१२९-१८॥
एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता। एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥१३-१२९-१९॥
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः। तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥१३-१२९-२०॥
सर्वभूतदया धर्मो न चैकग्रामवासिता। आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ॥१३-१२९-२१॥
न कुण्ड्यां नोदके सङ्गो न वाससि न चासने। न त्रिदण्डे न शयने नाग्नौ न शरणालये ॥१३-१२९-२२॥
अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः। युक्तो योगं प्रति सदा प्रतिसङ्ख्यानमेव च ॥१३-१२९-२३॥
वृक्षकूलशयो नित्यं शून्यागारनिवेशनः। नदीपुलिनशायी च नदीतीररतिश्च यः ॥१३-१२९-२४॥
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः। आत्मन्येवात्मनो भावं समासज्याटति द्विजः ॥१३-१२९-२५॥
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा। परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥१३-१२९-२६॥
न चैकत्र चिरासक्तो न चैकग्रामगोचरः। युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥१३-१२९-२७॥
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम्। यो मार्गमनुयातीमं पदं तस्य न विद्यते ॥१३-१२९-२८॥
चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः। हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥१३-१२९-२९॥
अतः परतरं नास्ति नाधरं न तिरोऽग्रतः। अदुःखमसुखं सौम्यमजरामरमव्ययम् ॥१३-१२९-३०॥
उमोवाच॥
गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया। भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ॥१३-१२९-३१॥
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम्। स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥१३-१२९-३२॥
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम्। तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥१३-१२९-३३॥
एतं मे संशयं देव मुनिधर्मकृतं विभो। सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे ॥ निखिलेन मया पृष्टं महादेव यथातथम् ॥१३-१२९-३४॥
महेश्वर उवाच॥
हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम्। यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ॥१३-१२९-३५॥
फेनपानामृषीणां यो धर्मो धर्मविदां सदा। तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ॥१३-१२९-३६॥
उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम्। अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ॥१३-१२९-३७॥
एष तेषां विशुद्धानां फेनपानां तपोधने। धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ॥१३-१२९-३८॥
वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले। उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ॥१३-१२९-३९॥
मृगनिर्मोकवसनाश्चीरवल्कलवाससः। निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥१३-१२९-४०॥
अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः। तपश्चरणमीहन्ते तेषां धर्मफलं महत् ॥१३-१२९-४१॥
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये। द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ॥१३-१२९-४२॥
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः। सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥१३-१२९-४३॥
पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि। सम्प्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ॥१३-१२९-४४॥
सोमपानां च देवानामूष्मपाणां तथैव च। उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ॥१३-१२९-४५॥
तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा। यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ॥१३-१२९-४६॥
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः। ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ॥१३-१२९-४७॥
सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः। कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥१३-१२९-४८॥
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम्। सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ॥१३-१२९-४९॥
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः। सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ॥१३-१२९-५०॥
निवृत्तिरुपभोगस्य गोरसानां च वै रतिः। स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ॥१३-१२९-५१॥
फलमूलाशनं वायुरापः शैवलभक्षणम्। ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥१३-१२९-५२॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने। अतीतपात्रसञ्चारे काले विगतभैक्षके ॥१३-१२९-५३॥
अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः। सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ॥१३-१२९-५४॥
न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः। मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥१३-१२९-५५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.