Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.138
वायुरुवाच॥
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम्। ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥१३-१३८-१॥
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह। नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः ॥१३-१३८-२॥
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा। अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥१३-१३८-३॥
स ताः पिबन्क्षीरमिव नातृप्यत महातपाः। अपूरयन्महौघेन महीं सर्वां च पार्थिव ॥१३-१३८-४॥
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः। व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ॥१३-१३८-५॥
अभिशप्तश्च भगवान्गौतमेन पुरandarः। अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ॥१३-१३८-६॥
तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा। ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो ॥१३-१३८-७॥
सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः। क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥१३-१३८-८॥
मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम्। सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ॥१३-१३८-९॥
समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप। गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः ॥१३-१३८-१०॥
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम्। तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् ॥१३-१३८-११॥
त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा। दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥१३-१३८-१२॥
अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम्। स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् ॥१३-१३८-१३॥
अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम्। कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ॥१३-१३८-१४॥
तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः। येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ॥१३-१३८-१५॥
अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः। अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् ॥१३-१३८-१६॥
द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः। स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ॥१३-१३८-१७॥
तिष्ठेत्कथमिति ब्रूहि न किञ्चिद्धि तदा भवेत्। अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥१३-१३८-१८॥
नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः। इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥१३-१३८-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.