Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.139
वायुरुवाच॥
इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा। अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥१३-१३९-१॥
धारणीं सर्वभूतानामयं प्राप्य वरो नृपः। कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥१३-१३९-२॥
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम्। अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ॥१३-१३९-३॥
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा। प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥१३-१३९-४॥
रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता। धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥१३-१३९-५॥
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः। त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥१३-१३९-६॥
अथागम्य महाराज नमस्कृत्य च कश्यपम्। पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥१३-१३९-७॥
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत्। अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ॥१३-१३९-८॥
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः। शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥१३-१३९-९॥
भद्रा सोमस्य दुहिता रूपेण परमा मता। तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥१३-१३९-१०॥
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी। उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ॥१३-१३९-११॥
तत आहूय सोतथ्यं ददावत्र यशस्विनीम्। भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ॥१३-१३९-१२॥
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह। स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥१३-१३९-१३॥
जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति। परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ॥१३-१३९-१४॥
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम्। प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ॥ तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ॥१३-१३९-१५॥
अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम्। तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा ॥१३-१३९-१६॥
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ॥ मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥१३-१३९-१७॥
लोकपालोऽसि लोकानां न लोकस्य विलोपकः। सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥१३-१३९-१८॥
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः। मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ॥ ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥१३-१३९-१९॥
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम्। उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥१३-१३९-२०॥
गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने। न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥१३-१३९-२१॥
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः। अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥१३-१३९-२२॥
पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः। सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ॥१३-१३९-२३॥
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः। दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ॥१३-१३९-२४॥
ततस्तदिरिणं जातं समुद्रश्चापसर्पितः। तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥१३-१३९-२५॥
अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति। अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥१३-१३९-२६॥
तस्मिन्सञ्चूर्णिते देशे भद्रामादाय वारिपः। अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥१३-१३९-२७॥
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत्। मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥१३-१३९-२८॥
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित्। उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥१३-१३९-२९॥
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप। इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥१३-१३९-३०॥
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः। ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥१३-१३९-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.