13.140
भीष्म उवाच॥
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्। शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ॥१३-१४०-१॥
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः। यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा ॥१३-१४०-२॥
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ। भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥१३-१४०-३॥
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम्। ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् ॥१३-१४०-४॥
अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम्। इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥१३-१४०-५॥
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः। तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गव ॥१३-१४०-६॥
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्। प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये ॥१३-१४०-७॥
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा। अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः ॥१३-१४०-८॥
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा। उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् ॥१३-१४०-९॥
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः। येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः ॥१३-१४०-१०॥
ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः। अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ॥१३-१४०-११॥
इत्युक्त आह देवान्स न शक्नोमि महीगतान्। दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव ॥१३-१४०-१२॥
एवं दग्धा भगवता दानवाः स्वेन तेजसा। अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥१३-१४०-१३॥
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ। ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥१३-१४०-१४॥
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्। शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥१३-१४०-१५॥
आदित्याः सत्रमासन्त सरो वै मानसं प्रति। वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् ॥१३-१४०-१६॥
यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान्। हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः ॥१३-१४०-१७॥
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः। हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः ॥१३-१४०-१८॥
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान्। विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् ॥१३-१४०-१९॥
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह। ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥१३-१४०-२०॥
स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ। ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥१३-१४०-२१॥
तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः। अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा ॥१३-१४०-२२॥
कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः। आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥१३-१४०-२३॥
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत्। हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ॥१३-१४०-२४॥
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः। ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥१३-१४०-२५॥
एतत्कर्म वसिष्ठस्य कथितं ते मयानघ। ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥१३-१४०-२६॥