Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.141
भीष्म उवाच॥
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्। शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥१३-१४१-१॥
घोरे तमस्ययुध्यन्त सहिता देवदानवाः। अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥१३-१४१-२॥
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः। देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥१३-१४१-३॥
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः। अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ॥१३-१४१-४॥
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम्। असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥१३-१४१-५॥
वयं वध्यामहे चापि शत्रुभिस्तमसावृते। नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥१३-१४१-६॥
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव। तिमिरघ्नश्च सविता दस्युहा चैव नो भव ॥१३-१४१-७॥
एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी। अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ॥१३-१४१-८॥
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव। प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥१३-१४१-९॥
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा। व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ॥१३-१४१-१०॥
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान्। पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः ॥१३-१४१-११॥
उद्भासितश्च सविता देवास्त्राता हतासुराः। अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ॥१३-१४१-१२॥
अद्वितीयेन मुनिना जपता चर्मवाससा। फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ॥१३-१४१-१३॥
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः। ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥१३-१४१-१४॥
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्। शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥१३-१४१-१५॥
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम्। प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ॥१३-१४१-१६॥
इन्द्र उवाच॥
अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम्। देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ॥१३-१४१-१७॥
अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत। पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥१३-१४१-१८॥
च्यवन उवाच॥
न चेत्करिष्यसि वचो मयोक्तं बलसूदन। मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥१३-१४१-१९॥
ततः कर्म समारब्धं हिताय सहसाश्विनोः। च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् ॥१३-१४१-२०॥
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः। उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ॥ तथा वज्रेण भगवानमर्षाकुललोचनः ॥१३-१४१-२१॥
तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः। अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् ॥१३-१४१-२२॥
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह। मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः ॥१३-१४१-२३॥
तस्य दन्तसहस्रं तु बभूव शतयोजनम्। द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ॥ हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् ॥१३-१४१-२४॥
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः। तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥१३-१४१-२५॥
ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा। अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ॥ अश्विभ्यां सह सोमं च पिबामो विगतज्वराः ॥१३-१४१-२६॥
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत्। च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ ॥१३-१४१-२७॥
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः। अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ॥१३-१४१-२८॥
एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः। तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ॥१३-१४१-२९॥
एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम्। ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् ॥१३-१४१-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.