Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.142
भीष्म उवाच॥
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः। शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥१३-१४२-१॥
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः। तदेयं च्यवनेनेह हृता तेषां वसुन्धरा ॥१३-१४२-२॥
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन्। शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥१३-१४२-३॥
देवा ऊचुः॥
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित। च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ॥१३-१४२-४॥
ब्रह्मोवाच॥
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः। प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ॥१३-१४२-५॥
ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे। इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ॥ भूगतान्हि विजेतारो वयमित्येव पार्थिव ॥१३-१४२-६॥
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम्। तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ॥१३-१४२-७॥
स च तान्ब्राह्मणानाह धनी कपवचो यथा। भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ॥१३-१४२-८॥
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः। सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ॥१३-१४२-९॥
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते। वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ॥१३-१४२-१०॥
दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः। सर्वे च नियतात्मानो बालानां संविभागिनः ॥१३-१४२-११॥
उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम्। अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ॥१३-१४२-१२॥
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान्। विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ॥१३-१४२-१३॥
ब्राह्मणा ऊचुः॥
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः। तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ॥१३-१४२-१४॥
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः। गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ॥१३-१४२-१५॥
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः। व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥१३-१४२-१६॥
ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः। नभसीव यथाभ्राणि व्यराजन्त नराधिप ॥ प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् ॥१३-१४२-१७॥
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः। अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥१३-१४२-१८॥
इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत। प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥१३-१४२-१९॥
जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो। ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥१३-१४२-२०॥
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः। लोके च परमा कीर्तिर्धर्मश्च चरितो महान् ॥१३-१४२-२१॥
अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः। त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह ॥१३-१४२-२२॥
वायुरुवाच॥
ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च। भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥१३-१४२-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.