13.143
कृष्णमाहात्म्यम्
युधिष्ठिर उवाच॥
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान्। कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप ॥१३-१४३-१॥
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत। तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ॥१३-१४३-२॥
भीष्म उवाच॥
एष ते केशवः सर्वमाख्यास्यति महामतिः। व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः ॥१३-१४३-३॥
बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य। देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति ॥१३-१४३-४॥
उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च। पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ ॥१३-१४३-५॥
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम्। अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु ॥१३-१४३-६॥
कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः। अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः ॥ सृष्टिस्तथैवेयमनुप्रसूता; स निर्ममे विश्वमिदं पुराणम् ॥१३-१४३-७॥
अस्य नाभ्यां पुष्करं सम्प्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः। येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम् ॥१३-१४३-८॥
कृते युगे धर्म आसीत्समग्र; स्त्रेताकाले ज्ञानमनुप्रपन्नः। बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम ॥१३-१४३-९॥
स पूर्वदेवो निजघान दैत्या; न्स पूर्वदेवश्च बभूव सम्राट्। स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता ॥१३-१४३-१०॥
यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु। धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति ॥१३-१४३-११॥
त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ। कृतं करिष्यत्क्रियते च देवो; मुहुः सोमं विद्धि च शक्रमेतम् ॥१३-१४३-१२॥
स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च। स शूलभृच्छोणितभृत्कराल; स्तं कर्मभिर्विदितं वै स्तुवन्ति ॥१३-१४३-१३॥
तं गन्धर्वा अप्सरसश्च नित्य; मुपतिष्ठन्ते विबुधानां शतानि। तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः स विजिगीषुरेकः ॥१३-१४३-१४॥
तमध्वरे शंसितारः स्तुवन्ति; रथन्तरे सामगाश्च स्तुवन्ति। तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति ॥१३-१४३-१५॥
स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श। स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥१३-१४३-१६॥
तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति। तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य ॥१३-१४३-१७॥
स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम्। स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः ॥१३-१४३-१८॥
तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि। स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम् ॥१३-१४३-१९॥
स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे। तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः ॥१३-१४३-२०॥
तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति। स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति ॥१३-१४३-२१॥
स एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा। महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः ॥ अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि ॥१३-१४३-२२॥
स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः। स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति ॥१३-१४३-२३॥
स एवाश्वः श्वेतमश्वं प्रयच्छ; त्स एवाश्वानथ सर्वांश्चकार। त्रिवन्धुरस्तस्य रथस्त्रिचक्र; स्त्रिवृच्छिराश्चतुरस्रश्च तस्य ॥१३-१४३-२४॥
स विहायो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम्। एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः ॥१३-१४३-२५॥
स लङ्घयन्वै सरितो जिघांस; न्स तं वज्रं प्रहरन्तं निरास। स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः ॥१३-१४३-२६॥
दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः। तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान् ॥१३-१४३-२७॥
वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान्। कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि ॥१३-१४३-२८॥
ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च। त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव ॥१३-१४३-२९॥
संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः। मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि ॥१३-१४३-३०॥
चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः। नक्षत्रयोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥१३-१४३-३१॥
रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च। प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषयश्चैव सप्त ॥१३-१४३-३२॥
वायुर्भूत्वा विक्षिपते च विश्व; मग्निर्भूत्वा दहते विश्वरूपः। आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसङ्घान् ॥१३-१४३-३३॥
वेद्यं च यद्वेदयते च वेदा; न्विधिश्च यश्चाश्रयते विधेयान्। धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि ॥१३-१४३-३४॥
ज्योतिर्भूतः परमोऽसौ पुरस्ता; त्प्रकाशयन्प्रभया विश्वरूपः। अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः; पुराकरोत्सर्वमेवाथ विश्वम् ॥१३-१४३-३५॥
ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं च। सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि ॥१३-१४३-३६॥
विश्वावासं निर्गुणं वासुदेवं; सङ्कर्षणं जीवभूतं वदन्ति। ततः प्रद्युम्नमनिरुद्धं चतुर्थ; माज्ञापयत्यात्मयोनिर्महात्मा ॥१३-१४३-३७॥
स पञ्चधा पञ्चजनोपपन्नं; सञ्चोदयन्विश्वमिदं सिसृक्षुः। ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ ॥१३-१४३-३८॥
स स्थावरं जङ्गमं चैवमेत; च्चतुर्विधं लोकमिमं च कृत्वा। ततो भूमिं व्यदधात्पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि ॥ तेन विश्वं कृतमेतद्धि राज; न्स जीवयत्यात्मनैवात्मयोनिः ॥१३-१४३-३९॥
ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च। समासेन विविधान्प्राणिलोका; न्सर्वान्सदा भूतपतिः सिसृक्षुः ॥१३-१४३-४०॥
शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि। यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि ॥१३-१४३-४१॥
मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः। भूतं च यच्चेह न विद्म किं चि; द्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥१३-१४३-४२॥
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम्। तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ॥१३-१४३-४३॥
एतादृशः केशवोऽयं स्वयम्भू; र्नारायणः परमश्चाव्ययश्च। मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च ॥१३-१४३-४४॥