Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.144
दुर्वासोमाहात्म्यम्
युधिष्ठिर उवाच॥
ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन। वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥१३-१४४-१॥
वासुदेव उवाच॥
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ। यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम ॥१३-१४४-२॥
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः। किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ॥ ईश्वरस्य सतस्तस्य इह चैव परत्र च ॥१३-१४४-३॥
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद। एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे ॥१३-१४४-४॥
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम्। प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः ॥१३-१४४-५॥
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे। एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥१३-१४४-६॥
अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक। ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ॥१३-१४४-७॥
ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम्। लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ॥१३-१४४-८॥
तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक। मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥१३-१४४-९॥
ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च। भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥१३-१४४-१०॥
अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा। कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः ॥१३-१४४-११॥
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः। चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् ॥ दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ॥१३-१४४-१२॥
स स्म सञ्चरते लोकान्ये दिव्या ये च मानुषाः। इमा गाथा गायमानश्चत्वरेषु सभासु च ॥१३-१४४-१३॥
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे। परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ॥ यो मां कश्चिद्वासयेत न स मां कोपयेदिह ॥१३-१४४-१४॥
तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम्। स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा। एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् ॥१३-१४४-१६॥
अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति। न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥१३-१४४-१७॥
सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च। कन्याश्चालङ्कृता दग्ध्वा ततो व्यपगतः स्वयम् ॥१३-१४४-१८॥
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः। कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥१३-१४४-१९॥
सदैव तु मया तस्य चित्तज्ञेन गृहे जनः। सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा ॥ भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ॥१३-१४४-२०॥
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम्। तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् ॥ क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ॥१३-१४४-२१॥
अविमृश्यैव च ततः कृतवानस्मि तत्तथा। तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् ॥१३-१४४-२२॥
स ददर्श तदाभ्याशे मातरं ते शुभाननाम्। तामपि स्मयमानः स पायसेनाभ्यलेपयत् ॥१३-१४४-२३॥
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत्। तमारुह्य रथं चैव निर्ययौ स गृहान्मम ॥१३-१४४-२४॥
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत्। प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥१३-१४४-२५॥
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा। ततः स राजमार्गेण महता निर्ययौ बहिः ॥१३-१४४-२६॥
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः। तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥१३-१४४-२७॥
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन। को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह ॥१३-१४४-२८॥
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम्। ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ॥१३-१४४-२९॥
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि। तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् ॥१३-१४४-३०॥
ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः। पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः ॥१३-१४४-३१॥
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम्। तथैव पायसादिग्धः प्रसीद भगवन्निति ॥१३-१४४-३२॥
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह। जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥१३-१४४-३३॥
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत। प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ॥ प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ॥१३-१४४-३४॥
यावदेव मनुष्याणामन्ने भावो भविष्यति। यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥१३-१४४-३५॥
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति। त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे ॥ सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥१३-१४४-३६॥
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम्। सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ॥१३-१४४-३७॥
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन। अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत ॥१३-१४४-३८॥
न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै। नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा ॥ इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् ॥१३-१४४-३९॥
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः। कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥१३-१४४-४०॥
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि। स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ॥१३-१४४-४१॥
षोडशानां सहस्राणां वधूनां केशवस्य ह। वरिष्ठा सहलोक्या च केशवस्य भविष्यसि ॥१३-१४४-४२॥
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत्। प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ॥१३-१४४-४३॥
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव। इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥१३-१४४-४४॥
तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम्। यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ॥१३-१४४-४५॥
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक। ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥१३-१४४-४६॥
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम्। यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ॥१३-१४४-४७॥
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम्। अपूजयं च मनसा रौक्मिणेय द्विजं तदा ॥१३-१४४-४८॥
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ। माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥१३-१४४-४९॥
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो। पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥१३-१४४-५०॥
एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम्। यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ॥१३-१४४-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.