13.145
ईश्वरप्रशंसा
युधिष्ठिर उवाच॥
दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन। अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥१३-१४५-१॥
महाभाग्यं च यत्तस्य नामानि च महात्मनः। तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर ॥१३-१४५-२॥
वासुदेव उवाच॥
हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने। यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः ॥१३-१४५-३॥
प्रयतः प्रातरुत्थाय यदधीये विशां पते। प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु ॥१३-१४५-४॥
प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः। शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥१३-१४५-५॥
नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते। इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥१३-१४५-६॥
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः। न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥१३-१४५-७॥
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः। विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥१३-१४५-८॥
घोरं च निनदं तस्य पर्जन्यनिनदोपमम्। श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे ॥१३-१४५-९॥
यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक्। न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ॥ कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥१३-१४५-१०॥
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ। विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ॥ धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥१३-१४५-११॥
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः। विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥१३-१४५-१२॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः। बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥१३-१४५-१३॥
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा। व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ॥१३-१४५-१४॥
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे। प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥१३-१४५-१५॥
भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च। ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ॥१३-१४५-१६॥
ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः। भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ॥१३-१४५-१७॥
पूषाणं चाभिदुद्राव परेण वपुषान्वितः। पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥१३-१४५-१८॥
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम्। पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् ॥१३-१४५-१९॥
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः। ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥१३-१४५-२०॥
जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः। संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ॥१३-१४५-२१॥
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्। भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥१३-१४५-२२॥
तेन चैवातिकोपेन स यज्ञः सन्धितोऽभवत्। यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते ॥१३-१४५-२३॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि। आयसं राजतं चैव सौवर्णमपरं तथा ॥१३-१४५-२४॥
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि। अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥१३-१४५-२५॥
तत ऊचुर्महात्मानो देवाः सर्वे समागताः। रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥ जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ॥१३-१४५-२६॥
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम्। शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ॥ वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् ॥१३-१४५-२७॥
देवान्रथवरं कृत्वा विनियुज्य च सर्वशः। त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥१३-१४५-२८॥
शरेणादित्यवर्णेन कालाग्निसमतेजसा। तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥१३-१४५-२९॥
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः। उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥१३-१४५-३०॥
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः। सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥१३-१४५-३१॥
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम्। सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥१३-१४५-३२॥
ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम्। अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥१३-१४५-३३॥
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः। बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा ॥१३-१४५-३४॥
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान्। द्वारवत्यां मम गृहे चिरं कालमुपावसत् ॥१३-१४५-३५॥
विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि। तानुदारतया चाहमक्षमं तस्य दुःसहम् ॥१३-१४५-३६॥
स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः। स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥१३-१४५-३७॥
स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च। मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥१३-१४५-३८॥
स धाता स विधाता च विश्वकर्मा स सर्ववित्। नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा ॥ विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः ॥१३-१४५-३९॥
एकधा च द्विधा चैव बहुधा च स एव च। शतधा सहस्रधा चैव तथा शतसहस्रधा ॥१३-१४५-४०॥
ईदृशः स महादेवो भूयश्च भगवानतः। न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥१३-१४५-४१॥