Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.149
युधिष्ठिरप्रश्नः
युधिष्ठिर उवाच॥
नाभागधेयः प्राप्नोति धनं सुबलवानपि। भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥१३-१४९-१॥
नालाभकाले लभते प्रयत्नेऽपि कृते सति। लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ॥ कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ॥१३-१४९-२॥
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात्। नालभ्यं चोपलभ्येत नृणां भरतसत्तम ॥१३-१४९-३॥
यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः। मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी ॥१३-१४९-४॥
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः। धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥१३-१४९-५॥
अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते। अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥ विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा ॥१३-१४९-६॥
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात्। न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ॥१३-१४९-७॥
यथा पिपासां जयति पुरुषः प्राप्य वै जलम्। दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः ॥१३-१४९-८॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि। तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥१३-१४९-९॥
भीष्म उवाच॥
ईहमानः समारम्भान्यदि नासादयेद्धनम्। उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥१३-१४९-१०॥
दानेन भोगी भवति मेधावी वृद्धसेवया। अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥१३-१४९-११॥
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि। स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः ॥१३-१४९-१२॥
यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे। मशकीटपिपीलानां स्थिरो भव युधिष्ठिर ॥१३-१४९-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.