Mahabharata - Anuśāsana Parva (महाभारत - अनुशासनपर्वम्)
13.150
धर्मसंशयः
भीष्म उवाच॥
कार्यते यच्च क्रियते सच्चासच्च कृतं ततः। तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥१३-१५०-१॥
काल एवात्र कालेन निग्रहानुग्रहौ ददत्। बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥१३-१५०-२॥
यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी। तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् ॥१३-१५०-३॥
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्। कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् ॥१३-१५०-४॥
यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान्। एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः ॥१३-१५०-५॥
न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन। तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥१३-१५०-६॥
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम्। अधर्मः सततो धर्मं कालेन परिरक्षितम् ॥१३-१५०-७॥
कार्यावेतौ हि कालेन धर्मो हि विजयावहः। त्रयाणामपि लोकानामालोककरणो भवेत् ॥१३-१५०-८॥
तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम्। उह्यमानः स धर्मेण धर्मे बहुभयच्छले ॥१३-१५०-९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.