13.151
वंशानुकीर्तनम्
युधिष्ठिर उवाच॥
किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते। विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ॥१३-१५१-१॥
भीष्म उवाच॥
अयं दैवतवंशो वै ऋषिवंशसमन्वितः। द्विसन्ध्यं पठितः पुत्र कल्मषापहरः परः ॥१३-१५१-२॥
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः। अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥१३-१५१-३॥
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती। वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥१३-१५१-४॥
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा। विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥१३-१५१-५॥
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह। वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥१३-१५१-६॥
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः। षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ॥१३-१५१-७॥
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा। नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥१३-१५१-८॥
तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः। देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥१३-१५१-९॥
उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा। विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥१३-१५१-१०॥
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च। धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ॥१३-१५१-११॥
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा। शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥१३-१५१-१२॥
नक्षत्राण्यृतवश्चैव मासाः सन्ध्याः सवत्सराः। वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥१३-१५१-१३॥
शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती। सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ॥१३-१५१-१४॥
गङ्गा महानदी चैव कपिला नर्मदा तथा। कम्पुना च विशल्या च करतोयाम्बुवाहिनी ॥१३-१५१-१५॥
सरयूर्गण्डकी चैव लोहित्यश्च महानदः। ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥१३-१५१-१६॥
गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा। दृषद्वती च कावेरी वङ्क्षुर्मन्दाकिनी तथा ॥१३-१५१-१७॥
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च। तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥१३-१५१-१८॥
पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम्। सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ॥१३-१५१-१९॥
हिरण्वती वितस्ता च तथैवेक्षुमती नदी। वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥१३-१५१-२०॥
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च। ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ॥१३-१५१-२१॥
कौशिकी यमुना सीता तथा चर्मण्वती नदी। नदी भीमरथी चैव बाहुदा च महानदी ॥ महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ॥१३-१५१-२२॥
नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम्। गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ॥१३-१५१-२३॥
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्। पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्॥१३-१५१-२४॥
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः। विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ॥१३-१५१-२५॥
मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः। शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥१३-१५१-२६॥
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः। पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ॥ दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥१३-१५१-२७॥
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा। पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥१३-१५१-२८॥
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः। स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥ सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः ॥१३-१५१-२९॥
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान्। कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ॥१३-१५१-३०॥
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा। भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ॥ बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥१३-१५१-३१॥
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा। मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥१३-१५१-३२॥
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्। दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥१३-१५१-३३॥
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्। उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥१३-१५१-३४॥
ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा। एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ॥१३-१५१-३५॥
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्। अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ॥१३-१५१-३६॥
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च। ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ॥१३-१५१-३७॥
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा। देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ॥१३-१५१-३८॥
लोमशो नाचिकेतश्च लोमहर्षण एव च। ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ॥१३-१५१-३९॥
एष वै समवायस्ते ऋषिदेवसमन्वितः। आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ॥१३-१५१-४०॥
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्। धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ॥१३-१५१-४१॥
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा। दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ॥१३-१५१-४२॥
यवनो जनकश्चैव तथा दृढरथो नृपः। रघुर्नरवरश्चैव तथा दशरथो नृपः ॥१३-१५१-४३॥
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः। हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ॥१३-१५१-४४॥
महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः। करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः ॥१३-१५१-४५॥
दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः। मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियङ्करः ॥१३-१५१-४६॥
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः। महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ॥१३-१५१-४७॥
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः। शिबिरौशीनरश्चैव गयश्चैव नराधिपः ॥१३-१५१-४८॥
प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः। ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥१३-१५१-४९॥
हविध्रश्च पृषध्रश्च प्रतीपः शन्तनुस्तथा। कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ॥१३-१५१-५०॥
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः। ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ॥१३-१५१-५१॥