13.152
युधिष्ठिरप्रतिप्रयाणम्
वैशम्पायन उवाच॥
तूष्णीम्भूते तदा भीष्मे पटे चित्रमिवार्पितम्। मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः ॥ नृपं शयानं गाङ्गेयमिदमाह वचस्तदा ॥१३-१५२-१॥
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः। सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ॥१३-१५२-२॥
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता। तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि ॥१३-१५२-३॥
एवमुक्तो भगवता व्यासेन पृथिवीपतिः। युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ॥१३-१५२-४॥
उवाच चैनं मधुरं ततः शान्तनवो नृपः। प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः ॥१३-१५२-५॥
यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः। ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ॥१३-१५२-६॥
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय। श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥१३-१५२-७॥
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय। सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः ॥१३-१५२-८॥
अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा। चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥१३-१५२-९॥
आगन्तव्यं च भवता समये मम पार्थिव। विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥१३-१५२-१०॥
तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम्। प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥१३-१५२-११॥
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्। सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च ॥१३-१५२-१२॥
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः। प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् ॥१३-१५२-१३॥