Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.003
संवर्तमरुत्तीयम्
व्यास उवाच॥
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः। न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः ॥१४-३-१॥
ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः। करोति पुरुषः कर्म तत्र का परिदेवना ॥१४-३-२॥
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः। शृणु तत्र यथा पापमपकृष्येत भारत ॥१४-३-३॥
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर। तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥१४-३-४॥
यज्ञेन तपसा चैव दानेन च नराधिप। पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ॥१४-३-५॥
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्। प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ॥१४-३-६॥
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः। ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥१४-३-७॥
राजसूयाश्वमेधौ च सर्वमेधं च भारत। नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥१४-३-८॥
यजस्व वाजिमेधेन विधिवद्दक्षिणावता। बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥१४-३-९॥
यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः। शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥१४-३-१०॥
युधिष्ठिर उवाच॥
असंशयं वाजिमेधः पावयेत्पृथिवीमपि। अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥१४-३-११॥
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम। दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ॥१४-३-१२॥
न च बालानिमान्दीनानुत्सहे वसु याचितुम्। तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥१४-३-१३॥
स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम। करमाहारयिष्यामि कथं शोकपरायणान् ॥१४-३-१४॥
दुर्योधनापराधेन वसुधा वसुधाधिपाः। प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम ॥१४-३-१५॥
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात्। कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥१४-३-१६॥
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः। विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥१४-३-१७॥
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन। अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥१४-३-१८॥
वैशम्पायन उवाच॥
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा। मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ॥१४-३-१९॥
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्। उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः ॥ तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥१४-३-२०॥
युधिष्ठिर उवाच॥
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम्। कस्मिंश्च काले स नृपो बभूव वदतां वर ॥१४-३-२१॥
व्यास उवाच॥
यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम्। यस्मिन्काले महावीर्यः स राजासीन्महाधनः ॥१४-३-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.