Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.004
युधिष्ठिर उवाच॥
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्। द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ॥१४-४-१॥
व्यास उवाच॥
आसीत्कृतयुगे पूर्वं मनुर्दण्डधरः प्रभुः। तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ॥१४-४-२॥
प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः। क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥१४-४-३॥
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम्। तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥१४-४-४॥
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम्। विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥१४-४-५॥
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च। सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ॥१४-४-६॥
दानधर्मरताः सन्तः सततं प्रियवादिनः। तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ॥१४-४-७॥
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्। नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥१४-४-८॥
तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम्। अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा ॥१४-४-९॥
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा। नियतो वर्तयामास प्रजाहितचिकीर्षया ॥१४-४-१०॥
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः। प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥१४-४-११॥
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम्। तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥१४-४-१२॥
स पीड्यमानो बहुभिः क्षीणकोशस्त्ववाहनः। आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ॥१४-४-१३॥
न चैनं परिहर्तुं तेऽशक्नुवन्परिसङ्क्षये। सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥१४-४-१४॥
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः। ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥१४-४-१५॥
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान्। एतस्मात्कारणाद्राजन्विश्रुतः स करन्धमः ॥१४-४-१६॥
तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत्। इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥१४-४-१७॥
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा। स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥१४-४-१८॥
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत्। यज्ञशीलः कर्मरतिर्धृतिमान्संयतेन्द्रियः ॥१४-४-१९॥
तेजसादित्यसदृशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥१४-४-२०॥
कर्मणा मनसा वाचा दमेन प्रशमेन च। मनांस्याराधयामास प्रजानां स महीपतिः ॥१४-४-२१॥
य ईजे हयमेधानां शतेन विधिवत्प्रभुः। याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ॥१४-४-२२॥
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया। मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ॥१४-४-२३॥
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः। स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ॥ कारयामास शुभ्राणि भाजनानि सहस्रशः ॥१४-४-२४॥
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे। काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥१४-४-२५॥
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च। चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ॥१४-४-२६॥
तस्यैव च समीपे स यज्ञवाटो बभूव ह। ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः ॥ मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ॥१४-४-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.