14.005
युधिष्ठिर उवाच॥
कथंवीर्यः समभवत्स राजा वदतां वरः। कथं च जातरूपेण समयुज्यत स द्विज ॥१४-५-१॥
क्व च तत्साम्प्रतं द्रव्यं भगवन्नवतिष्ठते। कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन ॥१४-५-२॥
व्यास उवाच॥
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः। अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥१४-५-३॥
तथैवाङ्गिरसः पुत्रौ व्रततुल्यौ बभूवतुः। बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥१४-५-४॥
तावपि स्पर्धिनौ राजन्पृथगास्तां परस्परम्। बृहस्पतिश्च संवर्तं बाधते स्म पुनः पुनः ॥१४-५-५॥
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत। अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत् ॥१४-५-६॥
वासवोऽप्यसुरान्सर्वान्निर्जित्य च निहत्य च। इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ॥ पुत्रमङ्गिरसो ज्येष्ठं विप्रश्रेष्ठं बृहस्पतिम् ॥१४-५-७॥
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करन्धमः। वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च ॥ शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ॥१४-५-८॥
वाहनं यस्य योधाश्च द्रव्याणि विविधानि च। ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ॥१४-५-९॥
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः। सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः ॥१४-५-१०॥
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्। अविक्षिन्नाम शत्रुक्षित्स वशे कृतवान्महीम् ॥ विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥१४-५-११॥
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्। पुत्रस्तमनुरक्ताभूत्पृथिवी सागराम्बरा ॥१४-५-१२॥
स्पर्धते सततं स स्म देवराजेन पार्थिवः। वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन ॥१४-५-१३॥
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः। यतमानोऽपि यं शक्रो न विशेषयति स्म ह ॥१४-५-१४॥
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम्। उवाचेदं वचो देवैः सहितो हरिवाहनः ॥१४-५-१५॥
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन। दैवं कर्माथ वा पित्र्यं कर्तासि मम चेत्प्रियम् ॥१४-५-१६॥
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते। इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥१४-५-१७॥
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्। याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥१४-५-१८॥
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्। परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥१४-५-१९॥
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः। मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ॥१४-५-२०॥
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः। नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥१४-५-२१॥
त्वमाजहर्थ देवानामेको वीर श्रियं पराम्। त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ॥१४-५-२२॥
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर। याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥१४-५-२३॥
समाश्वसिहि देवेश नाहं मर्त्याय कर्हिचित्। ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ॥१४-५-२४॥
हिरण्यरेतसोऽम्भः स्यात्परिवर्तेत मेदिनी। भासं च न रविः कुर्यान्मत्सत्यं विचलेद्यदि ॥१४-५-२५॥
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः। प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥१४-५-२६॥