14.009
इन्द्र उवाच॥
कच्चित्सुखं स्वपिषि त्वं बृहस्पते; कच्चिन्मनोज्ञाः परिचारकास्ते। कच्चिद्देवानां सुखकामोऽसि विप्र; कच्चिद्देवास्त्वां परिपालयन्ति ॥१४-९-१॥
बृहस्पतिरुवाच॥
सुखं शयेऽहं शयने महेन्द्र; तथा मनोज्ञाः परिचारका मे। तथा देवानां सुखकामोऽस्मि शक्र; देवाश्च मां सुभृशं पालयन्ति ॥१४-९-२॥
इन्द्र उवाच॥
कुतो दुःखं मानसं देहजं वा; पाण्डुर्विवर्णश्च कुतस्त्वमद्य। आचक्ष्व मे तद्द्विज यावदेता; न्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥१४-९-३॥
बृहस्पतिरुवाच॥
मरुत्तमाहुर्मघवन्यक्ष्यमाणं; महायज्ञेनोत्तमदक्षिणेन। तं संवर्तो याजयितेति मे श्रुतं; तदिच्छामि न स तं याजयेत ॥१४-९-४॥
इन्द्र उवाच॥
सर्वान्कामाननुजातोऽसि विप्र; यस्त्वं देवानां मन्त्रयसे पुरोधाः। उभौ च ते जन्ममृत्यू व्यतीतौ; किं संवर्तस्तव कर्ताद्य विप्र ॥१४-९-५॥
बृहस्पतिरुवाच॥
देवैः सह त्वमसुरान्सम्प्रणुद्य; जिघांससेऽद्याप्युत सानुबन्धान्। यं यं समृद्धं पश्यसि तत्र तत्र; दुःखं सपत्नेषु समृद्धभावः ॥१४-९-६॥
अतोऽस्मि देवेन्द्र विवर्णरूपः; सपत्नो मे वर्धते तन्निशम्य। सर्वोपायैर्मघवन्संनियच्छ; संवर्तं वा पार्थिवं वा मरुत्तम् ॥१४-९-७॥
इन्द्र उवाच॥
एहि गच्छ प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते। अयं वै त्वा याजयिता बृहस्पति; स्तथामरं चैव करिष्यतीति ॥१४-९-८॥
अग्निरुवाच॥
अयं गच्छामि तव शक्राद्य दूतो; बृहस्पतिं परिदातुं मरुत्ते। वाचं सत्यां पुरुहूतस्य कर्तुं; बृहस्पतेश्चापचितिं चिकीर्षुः ॥१४-९-९॥
व्यास उवाच॥
ततः प्रायाद्धूमकेतुर्महात्मा; वनस्पतीन्वीरुधश्चावमृद्नन्। कामाद्धिमान्ते परिवर्तमानः; काष्ठातिगो मातरिश्वेव नर्दन् ॥१४-९-१०॥
मरुत्त उवाच॥
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम्। आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥१४-९-११॥
अग्निरुवाच॥
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ। इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥१४-९-१२॥
मरुत्त उवाच॥
कच्चिच्छ्रीमान्देवराजः सुखी च; कच्चिच्चास्मान्प्रीयते धूमकेतो। कच्चिद्देवाश्चास्य वशे यथाव; त्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव ॥१४-९-१३॥
अग्निरुवाच॥
शक्रो भृशं सुसुखी पार्थिवेन्द्र; प्रीतिं चेच्छत्यजरां वै त्वया सः। देवाश्च सर्वे वशगास्तस्य राज; न्संदेशं त्वं शृणु मे देवराज्ञः ॥१४-९-१४॥
यदर्थं मां प्राहिणोत्त्वत्सकाशं; बृहस्पतिं परिदातुं मरुत्ते। अयं गुरुर्याजयिता नृप त्वां; मर्त्यं सन्तममरं त्वां करोतु ॥१४-९-१५॥
मरुत्त उवाच॥
संवर्तोऽयं याजयिता द्विजो मे; बृहस्पतेरञ्जलिरेष तस्य। नासौ देवं याजयित्वा महेन्द्रं; मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥१४-९-१६॥
अग्निरुवाच॥
ये वै लोका देवलोके महान्तः; सम्प्राप्स्यसे तान्देवराजप्रसादात्। त्वां चेदसौ याजयेद्वै बृहस्पति; र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ॥१४-९-१७॥
तथा लोका मानुषा ये च दिव्याः; प्रजापतेश्चापि ये वै महान्तः। ते ते जिता देवराज्यं च कृत्स्नं; बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ॥१४-९-१८॥
संवर्त उवाच॥
मास्मानेवं त्वं पुनरागाः कथं चि; द्बृहस्पतिं परिदातुं मरुत्ते। मा त्वां धक्ष्ये चक्षुषा दारुणेन; सङ्क्रुद्धोऽहं पावक तन्निबोध ॥१४-९-१९॥
व्यास उवाच॥
ततो देवानगमद्धूमकेतु; र्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत्। तं वै दृष्ट्वा प्राह शक्रो महात्मा; बृहस्पतेः संनिधौ हव्यवाहम् ॥१४-९-२०॥
यत्त्वं गतः प्रहितो जातवेदो; बृहस्पतिं परिदातुं मरुत्ते। तत्किं प्राह स नृपो यक्ष्यमाणः; कच्चिद्वचः प्रतिगृह्णाति तच्च ॥१४-९-२१॥
अग्निरुवाच॥
न ते वाचं रोचयते मरुत्तो; बृहस्पतेरञ्जलिं प्राहिणोत्सः। संवर्तो मां याजयितेत्यभीक्ष्णं; पुनः पुनः स मया प्रोच्यमानः ॥१४-९-२२॥
उवाचेदं मानुषा ये च दिव्याः; प्रजापतेर्ये च लोका महान्तः। तांश्चेल्लभेयं संविदं तेन कृत्वा; तथापि नेच्छेयमिति प्रतीतः ॥१४-९-२३॥
इन्द्र उवाच॥
पुनर्भवान्पार्थिवं तं समेत्य; वाक्यं मदीयं प्रापय स्वार्थयुक्तम्। पुनर्यद्युक्तो न करिष्यते वच; स्ततो वज्रं सम्प्रहर्तास्मि तस्मै ॥१४-९-२४॥
अग्निरुवाच॥
गन्धर्वराड्यात्वयं तत्र दूतो; बिभेम्यहं वासव तत्र गन्तुम्। संरब्धो मामब्रवीत्तीक्ष्णरोषः; संवर्तो वाक्यं चरितब्रह्मचर्यः ॥१४-९-२५॥
यद्यागच्छेः पुनरेवं कथं चि; द्बृहस्पतिं परिदातुं मरुत्ते। दहेयं त्वां चक्षुषा दारुणेन; सङ्क्रुद्ध इत्येतदवैहि शक्र ॥१४-९-२६॥
इन्द्र उवाच॥
त्वमेवान्यान्दहसे जातवेदो; न हि त्वदन्यो विद्यते भस्मकर्ता। त्वत्संस्पर्शात्सर्वलोको बिभे; त्यश्रद्धेयं वदसे हव्यवाह ॥१४-९-२७॥
अग्निरुवाच॥
दिवं देवेन्द्र पृथिवीं चैव सर्वां; संवेष्टयेस्त्वं स्वबलेनैव शक्र। एवंविधस्येह सतस्तवासौ; कथं वृत्रस्त्रिदिवं प्राग्जहार ॥१४-९-२८॥
इन्द्र उवाच॥
न चण्डिका जङ्गमा नो करेणु; र्न वारिसोमं प्रपिबामि वह्ने। न दुर्बले वै विसृजामि वज्रं; को मेऽसुखाय प्रहरेन्मनुष्यः ॥१४-९-२९॥
प्रव्राजयेयं कालकेयान्पृथिव्या; मपाकर्षं दानवानन्तरिक्षात्। दिवः प्रह्रादमवसानमानयं; को मेऽसुखाय प्रहरेत मर्त्यः ॥१४-९-३०॥
अग्निरुवाच॥
यत्र शर्यातिं च्यवनो याजयिष्य; न्सहाश्विभ्यां सोममगृह्णदेकः। तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता; च्छर्यातियज्ञं स्मर तं महेन्द्र ॥१४-९-३१॥
वज्रं गृहीत्वा च पुरंदर त्वं; सम्प्राहार्षीश्च्यवनस्यातिघोरम्। स ते विप्रः सह वज्रेण बाहु; मपागृह्णात्तपसा जातमन्युः ॥१४-९-३२॥
ततो रोषात्सर्वतो घोररूपं; सपत्नं ते जनयामास भूयः। मदं नामासुरं विश्वरूपं; यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥१४-९-३३॥
हनुरेका जगतीस्था तथैका; दिवं गता महतो दानवस्य। सहस्रं दन्तानां शतयोजनानां; सुतीक्ष्णानां घोररूपं बभूव ॥१४-९-३४॥
वृत्ताः स्थूला रजतस्तम्भवर्णा; दंष्ट्राश्चतस्रो द्वे शते योजनानाम्। स त्वां दन्तान्विदशन्नभ्यधाव; ज्जिघांसया शूलमुद्यम्य घोरम् ॥१४-९-३५॥
अपश्यस्त्वं तं तदा घोररूपं; सर्वे त्वन्ये ददृशुर्दर्शनीयम्। यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि; मागच्छेथाः शरणं दानवघ्न ॥१४-९-३६॥
क्षत्रादेवं ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः। सोऽहं जानन्ब्रह्मतेजो यथाव; न्न संवर्तं गन्तुमिच्छामि शक्र ॥१४-९-३७॥