14.010
इन्द्र उवाच॥
एवमेतद्ब्रह्मबलं गरीयो; न ब्रह्मतः किञ्चिदन्यद्गरीयः। आविक्षितस्य तु बलं न मृष्ये; वज्रमस्मै प्रहरिष्यामि घोरम् ॥१४-१०-१॥
धृतराष्ट्र प्रहितो गच्छ मरुत्तं; संवर्तेन सहितं तं वदस्व। बृहस्पतिं त्वमुपशिक्षस्व राज; न्वज्रं वा ते प्रहरिष्यामि घोरम् ॥१४-१०-२॥
व्यास उवाच॥
ततो गत्वा धृतराष्ट्रो नरेन्द्रं; प्रोवाचेदं वचनं वासवस्य। गन्धर्वं मां धृतराष्ट्रं निबोध; त्वामागतं वक्तुकामं नरेन्द्र ॥१४-१०-३॥
ऐन्द्रं वाक्यं शृणु मे राजसिंह; यत्प्राह लोकाधिपतिर्महात्मा। बृहस्पतिं याजकं त्वं वृणीष्व; वज्रं वा ते प्रहरिष्यामि घोरम् ॥ वचश्चेदेतन्न करिष्यसे मे; प्राहैतदेतावदचिन्त्यकर्मा ॥१४-१०-४॥
मरुत्त उवाच॥
त्वं चैवैतद्वेत्थ पुरंदरश्च; विश्वेदेवा वसवश्चाश्विनौ च। मित्रद्रोहे निष्कृतिर्वै यथैव; नास्तीति लोकेषु सदैव वादः ॥१४-१०-५॥
बृहस्पतिर्याजयिता महेन्द्रं; देवश्रेष्ठं वज्रभृतां वरिष्ठम्। संवर्तो मां याजयिताद्य राज; न ते वाक्यं तस्य वा रोचयामि ॥१४-१०-६॥
गन्धर्व उवाच॥
घोरो नादः श्रूयते वासवस्य; नभस्तले गर्जतो राजसिंह। व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः; क्षेमं राजंश्चिन्त्यतामेष कालः ॥१४-१०-७॥
व्यास उवाच॥
इत्येवमुक्तो धृतराष्ट्रेण राजा; श्रुत्वा नादं नदतो वासवस्य। तपोनित्यं धर्मविदां वरिष्ठं; संवर्तं तं ज्ञापयामास कार्यम् ॥१४-१०-८॥
मरुत्त उवाच॥
इममश्मानं प्लवमानमारा; दध्वा दूरं तेन न दृश्यतेऽद्य। प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः; प्रयच्छ तस्मादभयं विप्रमुख्य ॥१४-१०-९॥
अयमायाति वै वज्री दिशो विद्योतयन्दश। अमानुषेण घोरेण सदस्यास्त्रासिता हि नः ॥१४-१०-१०॥
संवर्त उवाच॥
भयं शक्राद्व्येतु ते राजसिंह; प्रणोत्स्येऽहं भयमेतत्सुघोरम्। संस्तम्भिन्या विद्यया क्षिप्रमेव; मा भैस्त्वमस्माद्भव चापि प्रतीतः ॥१४-१०-११॥
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप। सर्वेषामेव देवानां क्षपितान्यायुधानि मे ॥१४-१०-१२॥
दिशो वज्रं व्रजतां वायुरेतु; वर्षं भूत्वा निपततु काननेषु। आपः प्लवन्त्वन्तरिक्षे वृथा च; सौदामिनी दृश्यतां मा बिभस्त्वम् ॥१४-१०-१३॥
अथो वह्निस्त्रातु वा सर्वतस्ते; कामं वर्षं वर्षतु वासवो वा। वज्रं तथा स्थापयतां च वायु; र्महाघोरं प्लवमानं जलौघैः ॥१४-१०-१४॥
मरुत्त उवाच॥
घोरः शब्दः श्रूयते वै महास्वनो; वज्रस्यैष सहितो मारुतेन। आत्मा हि मे प्रव्यथते मुहुर्मुहु; र्न मे स्वास्थ्यं जायते चाद्य विप्र ॥१४-१०-१५॥
संवर्त उवाच॥
वज्रादुग्राद्व्येतु भयं तवाद्य; वातो भूत्वा हन्मि नरेन्द्र वज्रम्। भयं त्यक्त्वा वरमन्यं वृणीष्व; कं ते कामं तपसा साधयामि ॥१४-१०-१६॥
मरुत्त उवाच॥
इन्द्रः साक्षात्सहसाभ्येतु विप्र; हविर्यज्ञे प्रतिगृह्णातु चैव। स्वं स्वं धिष्ण्यं चैव जुषन्तु देवाः; सुतं सोमं प्रतिगृह्णन्तु चैव ॥१४-१०-१७॥
संवर्त उवाच॥
अयमिन्द्रो हरिभिरायाति राज; न्देवैः सर्वैः सहितः सोमपीथी। मन्त्राहूतो यज्ञमिमं मयाद्य; पश्यस्वैनं मन्त्रविस्रस्तकायम् ॥१४-१०-१८॥
व्यास उवाच॥
ततो देवैः सहितो देवराजो; रथे युक्त्वा तान्हरीन्वाजिमुख्यान्। आयाद्यज्ञमधि राज्ञः पिपासु; राविक्षितस्याप्रमेयस्य सोमम् ॥१४-१०-१९॥
तमायान्तं सहितं देवसङ्घैः; प्रत्युद्ययौ सपुरोधा मरुत्तः। चक्रे पूजां देवराजाय चाग्र्यां; यथाशास्त्रं विधिवत्प्रीयमाणः ॥१४-१०-२०॥
संवर्त उवाच॥
स्वागतं ते पुरुहूतेह विद्व; न्यज्ञोऽद्यायं संनिहिते त्वयीन्द्र। शोशुभ्यते बलवृत्रघ्न भूयः; पिबस्व सोमं सुतमुद्यतं मया ॥१४-१०-२१॥
मरुत्त उवाच॥
शिवेन मां पश्य नमश्च तेऽस्तु; प्राप्तो यज्ञः सफलं जीवितं मे। अयं यज्ञं कुरुते मे सुरेन्द्र; बृहस्पतेरवरो जन्मना यः ॥१४-१०-२२॥
इन्द्र उवाच॥
जानामि ते गुरुमेनं तपोधनं; बृहस्पतेरनुजं तिग्मतेजसम्। यस्याह्वानादागतोऽहं नरेन्द्र; प्रीतिर्मेऽद्य त्वयि मनुः प्रनष्टः ॥१४-१०-२३॥
संवर्त उवाच॥
यदि प्रीतस्त्वमसि वै देवराज; तस्मात्स्वयं शाधि यज्ञे विधानम्। स्वयं सर्वान्कुरु मार्गान्सुरेन्द्र; जानात्वयं सर्वलोकश्च देव ॥१४-१०-२४॥
व्यास उवाच॥
एवमुक्तस्त्वाङ्गिरसेन शक्रः; समादिदेश स्वयमेव देवान्। सभाः क्रियन्तामावसथाश्च मुख्याः; सहस्रशश्चित्रभौमाः समृद्धाः ॥१४-१०-२५॥
कॢप्तस्थूणाः कुरुतारोहणानि; गन्धर्वाणामप्सरसां च शीघ्रम्। येषु नृत्येरन्नप्सरसः सहस्रशः; स्वर्गोद्देशः क्रियतां यज्ञवाटः ॥१४-१०-२६॥
इत्युक्तास्ते चक्रुराशु प्रतीता; दिवौकसः शक्रवाक्यान्नरेन्द्र। ततो वाक्यं प्राह राजानमिन्द्रः; प्रीतो राजन्पूजयानो मरुत्तम् ॥१४-१०-२७॥
एष त्वयाहमिह राजन्समेत्य; ये चाप्यन्ये तव पूर्वे नरेन्द्राः। सर्वाश्चान्या देवताः प्रीयमाणा; हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥१४-१०-२८॥
आग्नेयं वै लोहितमालभन्तां; वैश्वदेवं बहुरूपं विराजन्। नीलं चोक्षाणं मेध्यमभ्यालभन्तां; चलच्छिश्नं मत्प्रदिष्टं द्विजेन्द्राः ॥१४-१०-२९॥
ततो यज्ञो ववृधे तस्य राज्ञो; यत्र देवाः स्वयमन्नानि जह्रुः। यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः; सदस्योऽभूद्धरिमान्देवराजः ॥१४-१०-३०॥
ततः संवर्तश्चित्यगतो महात्मा; यथा वह्निः प्रज्वलितो द्वितीयः। हवींष्युच्चैराह्वयन्देवसङ्घा; ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ॥१४-१०-३१॥
ततः पीत्वा बलभित्सोममग्र्यं; ये चाप्यन्ये सोमपा वै दिवौकसः। सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन; यथाजोषं तर्पिताः प्रीतिमन्तः ॥१४-१०-३२॥
ततो राजा जातरूपस्य राशी; न्पदे पदे कारयामास हृष्टः। द्विजातिभ्यो विसृजन्भूरि वित्तं; रराज वित्तेश इवारिहन्ता ॥१४-१०-३३॥
ततो वित्तं विविधं संनिधाय; यथोत्साहं कारयित्वा च कोशम्। अनुज्ञातो गुरुणा संनिवृत्य; शशास गामखिलां सागरान्ताम् ॥१४-१०-३४॥
एवङ्गुणः सम्बभूवेह राजा; यस्य क्रतौ तत्सुवर्णं प्रभूतम्। तत्त्वं समादाय नरेन्द्र वित्तं; यजस्व देवांस्तर्पयानो विधानैः ॥१४-१०-३५॥
वैशम्पायन उवाच॥
ततो राजा पाण्डवो हृष्टरूपः; श्रुत्वा वाक्यं सत्यवत्याः सुतस्य। मनश्चक्रे तेन वित्तेन यष्टुं; ततोऽमात्यैर्मन्त्रयामास भूयः ॥१४-१०-३६॥