14.014
हास्तिनापुरप्रवेशः
वैशम्पायन उवाच॥
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः। समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः ॥१४-१४-१॥
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्। द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः ॥१४-१४-२॥
नारदेनाथ भीमेन नकुलेन च पार्थिवः। कृष्णया सहदेवेन विजयेन च धीमता ॥१४-१४-३॥
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः। व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम् ॥१४-१४-४॥
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः। कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ॥ अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ॥१४-१४-५॥
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्। व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥१४-१४-६॥
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः। न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते ॥१४-१४-७॥
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः। पुरस्कृत्येह भवतः समानेष्यामहे मखम् ॥१४-१४-८॥
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह। बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥१४-१४-९॥
तथा भगवता चित्रं कल्याणं बहु भाषितम्। देवर्षिणा नारदेन देवस्थानेन चैव ह ॥१४-१४-१०॥
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून्। लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ॥१४-१४-११॥
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः। अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ॥ पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ॥१४-१४-१२॥
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः। एवं नातिमहान्कालः स तेषामभ्यवर्तत ॥१४-१४-१३॥
कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा। महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् ॥१४-१४-१४॥
भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन। सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् ॥१४-१४-१५॥
ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः। धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ॥१४-१४-१६॥
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्। अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ॥१४-१४-१७॥