14.015
इन्द्रप्रस्थे कृष्णार्जुनयोः सभाविहारः
जनमेजय उवाच॥
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम। राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनञ्जयौ ॥१४-१५-१॥
वैशम्पायन उवाच॥
विजिते पाण्डवेयैस्तु प्रशान्ते च विशां पते। राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ ॥१४-१५-२॥
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव। तौ वनेषु विचित्रेषु पर्वतानां च सानुषु ॥१४-१५-३॥
शैलेषु रमणीयेषु पल्वलेषु नदीषु च। चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने ॥१४-१५-४॥
इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ। प्रविश्य तां सभां रम्यां विजह्राते च भारत ॥१४-१५-५॥
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव। कथायोगे कथायोगे कथयामासतुस्तदा ॥१४-१५-६॥
ऋषीणां देवतानां च वंशांस्तावाहतुस्तदा। प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ ॥१४-१५-७॥
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः। निश्चयज्ञः स पार्थाय कथयामास केशवः ॥१४-१५-८॥
पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः। कथाभिः शमयामास पार्थं शौरिर्जनार्दनः ॥१४-१५-९॥
स तमाश्वास्य विधिवद्विधानज्ञो महातपाः। अपहृत्यात्मनो भारं विशश्रामेव सात्वतः ॥१४-१५-१०॥
ततः कथान्ते गोविन्दो गुडाकेशमुवाच ह। सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः ॥१४-१५-११॥
विजितेयं धरा कृत्स्ना सव्यसाचिन्परन्तप। त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह ॥१४-१५-१२॥
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः। भीमसेनप्रभावेन यमयोश्च नरोत्तम ॥१४-१५-१३॥
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्। धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः ॥१४-१५-१४॥
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः। धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः ॥१४-१५-१५॥
प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः। भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह ॥१४-१५-१६॥
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव। किमु यत्र जनोऽयं वै पृथा चामित्रकर्शन ॥१४-१५-१७॥
यत्र धर्मसुतो राजा यत्र भीमो महाबलः। यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम ॥१४-१५-१८॥
तथैव स्वर्गकल्पेषु सभोद्देशेषु भारत। रमणीयेषु पुण्येषु सहितस्य त्वयानघ ॥१४-१५-१९॥
कालो महांस्त्वतीतो मे शूरपुत्रमपश्यतः। बलदेवं च कौरव्य तथान्यान्वृष्णिपुङ्गवान् ॥१४-१५-२०॥
सोऽहं गन्तुमभीप्सामि पुरीं द्वारवतीं प्रति। रोचतां गमनं मह्यं तवापि पुरुषर्षभ ॥१४-१५-२१॥
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः। स ह भीष्मेण यद्युक्तमस्माभिः शोककारिते ॥१४-१५-२२॥
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः। तेन तच्च वचः सम्यग्गृहीतं सुमहात्मना ॥१४-१५-२३॥
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि। सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा ॥१४-१५-२४॥
तद्गत्वा तं महात्मानं यदि ते रोचतेऽर्जुन। अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम् ॥१४-१५-२५॥
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते। कुतो गन्तुं महाबाहो पुरीं द्वारवतीं प्रति ॥१४-१५-२६॥
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया। ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन ॥१४-१५-२७॥
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन। धार्तराष्ट्रो हतो राजा सबलः सपदानुगः ॥१४-१५-२८॥
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः। स्थिता समुद्रवसना सशैलवनकानना ॥ चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव ॥१४-१५-२९॥
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्। उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः ॥ स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ ॥१४-१५-३०॥
तन्मया सह गत्वाद्य राजानं कुरुवर्धनम्। आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति ॥१४-१५-३१॥
इदं शरीरं वसु यच्च मे गृहे; निवेदितं पार्थ सदा युधिष्ठिरे। प्रियश्च मान्यश्च हि मे युधिष्ठिरः; सदा कुरूणामधिपो महामतिः ॥१४-१५-३२॥
प्रयोजनं चापि निवासकारणे; न विद्यते मे त्वदृते महाभुज। स्थिता हि पृथ्वी तव पार्थ शासने; गुरोः सुवृत्तस्य युधिष्ठिरस्य ह ॥१४-१५-३३॥
इतीदमुक्तं स तदा महात्मना; जनार्दनेनामितविक्रमोऽर्जुनः। तथेति कृच्छ्रादिव वाचमीरय; ज्जनार्दनं सम्प्रतिपूज्य पार्थिव ॥१४-१५-३४॥