14.030
पितर ऊचुः॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥१४-३०-१॥
अलर्को नाम राजर्षिरभवत्सुमहातपाः। धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ॥१४-३०-२॥
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम्। कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥१४-३०-३॥
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह। उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥१४-३०-४॥
अलर्क उवाच॥
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः। अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥१४-३०-५॥
यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति। मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥१४-३०-६॥
मन उवाच॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१४-३०-७॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४-३०-८॥
अलर्क उवाच॥
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति। तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१४-३०-९॥
घ्राण उवाच॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१४-३०-१०॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४-३०-११॥
अलर्क उवाच॥
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति। तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१४-३०-१२॥
जिह्वोवाच॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१४-३०-१३॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४-३०-१४॥
अलर्क उवाच॥
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति। तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥१४-३०-१५॥
त्वगुवाच॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१४-३०-१६॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४-३०-१७॥
अलर्क उवाच॥
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति। तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१४-३०-१८॥
श्रोत्र उवाच॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥१४-३०-१९॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४-३०-२०॥
अलर्क उवाच॥
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति। तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१४-३०-२१॥
चक्षुरुवाच॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१४-३०-२२॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि। तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥१४-३०-२३॥
अलर्क उवाच॥
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति। तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥१४-३०-२४॥
बुद्धिरुवाच॥
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन। तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥१४-३०-२५॥
पितर ऊचुः॥
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम्। नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ॥ सुसमाहितचेतास्तु ततोऽचिन्तयत प्रभुः ॥१४-३०-२६॥
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम। नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥१४-३०-२७॥
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः। इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥ योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ॥१४-३०-२८॥
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह। अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ॥ इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥१४-३०-२९॥
इति त्वमपि जानीहि राम मा क्षत्रियाञ्जहि। तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥१४-३०-३०॥
ब्राह्मण उवाच॥
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः। आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥१४-३०-३१॥