14.052
उत्तङ्कोपाख्यानम्
वैशम्पायन उवाच॥
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः। परिष्वज्य न्यवर्तन्त सानुयात्राः परन्तपाः ॥१४-५२-१॥
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः। आ चक्षुर्विषयाच्चैनं ददर्श च पुनः पुनः ॥१४-५२-२॥
कृच्छ्रेणैव च तां पार्थो गोविन्दे विनिवेशिताम्। सञ्जहार तदा दृष्टिं कृष्णश्चाप्यपराजितः ॥१४-५२-३॥
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः। बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥१४-५२-४॥
वायुर्वेगेन महता रथस्य पुरतो ववौ। कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥१४-५२-५॥
ववर्ष वासवश्चापि तोयं शुचि सुगन्धि च। दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः ॥१४-५२-६॥
स प्रयातो महाबाहुः समेषु मरुधन्वसु। ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम् ॥१४-५२-७॥
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः। पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥१४-५२-८॥
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्। उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥१४-५२-९॥
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्। कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥१४-५२-१०॥
अभिसन्धाय तान्वीरानुपावृत्तोऽसि केशव। सम्बन्धिनः सुदयितान्सततं वृष्णिपुङ्गव ॥१४-५२-११॥
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः। लोकेषु विहरिष्यन्ति त्वया सह परन्तप ॥१४-५२-१२॥
स्वराष्ट्रेषु च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्। कौरवेषु प्रशान्तेषु त्वया नाथेन माधव ॥१४-५२-१३॥
या मे सम्भावना तात त्वयि नित्यमवर्तत। अपि सा सफला कृष्ण कृता ते भरतान्प्रति ॥१४-५२-१४॥
वासुदेव उवाच॥
कृतो यत्नो मया ब्रह्मन्सौभ्रात्रे कौरवान्प्रति। न चाशक्यन्त सन्धातुं तेऽधर्मरुचयो मया ॥१४-५२-१५॥
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः। न दिष्टमभ्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ॥ महर्षे विदितं नूनं सर्वमेतत्तवानघ ॥१४-५२-१६॥
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च। ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥१४-५२-१७॥
पञ्च वै पाण्डवाः शिष्टा हतमित्रा हतात्मजाः। धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥१४-५२-१८॥
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः। उत्तङ्कः प्रत्युवाचैनं रोषादुत्फाल्य लोचने ॥१४-५२-१९॥
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपाण्डवाः। सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥१४-५२-२०॥
न च ते प्रसभं यस्मात्ते निगृह्य निवर्तिताः। तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥१४-५२-२१॥
त्वया हि शक्तेन सता मिथ्याचारेण माधव। उपचीर्णाः कुरुश्रेष्ठा यस्त्वेतान्समुपेक्षथाः ॥१४-५२-२२॥
वासुदेव उवाच॥
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन। गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव ॥१४-५२-२३॥
श्रुत्वा त्वमेतदध्यात्मं मुञ्चेथाः शापमद्य वै। न च मां तपसाल्पेन शक्तोऽभिभवितुं पुमान् ॥१४-५२-२४॥
न च ते तपसो नाशमिच्छामि जपतां वर। तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥१४-५२-२५॥
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम। दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम् ॥१४-५२-२६॥