14.053
उत्तङ्क उवाच॥
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम्। श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥१४-५३-१॥
वासुदेव उवाच॥
तमो रजश्च सत्त्वं च विद्धि भावान्मदाश्रयान्। तथा रुद्रान्वसूंश्चापि विद्धि मत्प्रभवान्द्विज ॥१४-५३-२॥
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्। स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः ॥१४-५३-३॥
तथा दैत्यगणान्सर्वान्यक्षराक्षसपन्नगान्। गन्धर्वाप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥१४-५३-४॥
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च। अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥१४-५३-५॥
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने। दैवानि चैव कर्माणि विद्धि सर्वं मदात्मकम् ॥१४-५३-६॥
असच्च सदसच्चैव यद्विश्वं सदसतः परम्। ततः परं नास्ति चैव देवदेवात्सनातनात् ॥१४-५३-७॥
ओङ्कारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह। यूपं सोमं तथैवेह त्रिदशाप्यायनं मखे ॥१४-५३-८॥
होतारमपि हव्यं च विद्धि मां भृगुनन्दन। अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम् ॥१४-५३-९॥
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे। प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ॥ स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः ॥१४-५३-१०॥
विद्धि मह्यं सुतं धर्ममग्रजं द्विजसत्तम। मानसं दयितं विप्र सर्वभूतदयात्मकम् ॥१४-५३-११॥
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः। बह्वीः संसरमाणो वै योनीर्हि द्विजसत्तम ॥१४-५३-१२॥
धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च। तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ॥१४-५३-१३॥
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः। भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ॥१४-५३-१४॥
अधर्मे वर्तमानानां सर्वेषामहमप्युत। धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ॥ तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥१४-५३-१५॥
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन। तदाहं देववत्सर्वमाचरामि न संशयः ॥१४-५३-१६॥
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन। तदा गन्धर्ववच्चेष्टाः सर्वाश्चेष्टामि भार्गव ॥१४-५३-१७॥
नागयोनौ यदा चैव तदा वर्तामि नागवत्। यक्षराक्षसयोनीश्च यथावद्विचराम्यहम् ॥१४-५३-१८॥
मानुष्ये वर्तमाने तु कृपणं याचिता मया। न च ते जातसंमोहा वचो गृह्णन्ति मे हितम् ॥१४-५३-१९॥
भयं च महदुद्दिश्य त्रासिताः कुरवो मया। क्रुद्धेव भूत्वा च पुनर्यथावदनुदर्शिताः ॥१४-५३-२०॥
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा। धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥१४-५३-२१॥
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम। एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥१४-५३-२२॥