Mahabharata - Ashvamedhika Parva (महाभारत - अश्वमेधिकपर्वम्)
14.054
उत्तङ्क उवाच॥
अभिजानामि जगतः कर्तारं त्वां जनार्दन। नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥१४-५४-१॥
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत। विनिवृत्तश्च मे कोप इति विद्धि परन्तप ॥१४-५४-२॥
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्होऽहं जनार्दन। द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय ॥१४-५४-३॥
वैशम्पायन उवाच॥
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः। शाश्वतं वैष्णवं धीमान्ददृशे यद्धनञ्जयः ॥१४-५४-४॥
स ददर्श महात्मानं विश्वरूपं महाभुजम्। विस्मयं च ययौ विप्रस्तद्दृष्ट्वा रूपमैश्वरम् ॥१४-५४-५॥
उत्तङ्क उवाच॥
विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशम्। पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥१४-५४-६॥
द्यावापृथिव्योर्यन्मध्यं जठरेण तदावृतम्। भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥१४-५४-७॥
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम्। पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥१४-५४-८॥
वैशम्पायन उवाच॥
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय। वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम् ॥१४-५४-९॥
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते। यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥१४-५४-१०॥
तमब्रवीत्पुनः कृष्णो मा त्वमत्र विचारय। अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥१४-५४-११॥
उत्तङ्क उवाच॥
अवश्यकरणीयं वै यद्येतन्मन्यसे विभो। तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥१४-५४-१२॥
वैशम्पायन उवाच॥
ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः। एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥१४-५४-१३॥
ततः कदाचिद्भगवानुत्तङ्कस्तोयकाङ्क्षया। तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥१४-५४-१४॥
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम्। अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥१४-५४-१५॥
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्। तस्याधः स्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥१४-५४-१६॥
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव। एह्युत्तङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह ॥ कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाहतम् ॥१४-५४-१७॥
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत। चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ॥१४-५४-१८॥
पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत्। न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥१४-५४-१९॥
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना। श्वभिः सह महाराज तत्रैवान्तरधीयत ॥१४-५४-२०॥
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः। मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥१४-५४-२१॥
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः। आजगाम महाबाहुरुत्तङ्कश्चैनमब्रवीत् ॥१४-५४-२२॥
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम। सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥१४-५४-२३॥
इत्युक्तवचनं धीमान्महाबुद्धिर्जनार्दनः। उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥१४-५४-२४॥
यादृशेनेह रूपेण योग्यं दातुं वृतेन वै। तादृशं खलु मे दत्तं त्वं तु तन्नावबुध्यसे ॥१४-५४-२५॥
मया त्वदर्थमुक्तो हि वज्रपाणिः पुरंदरः। उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥१४-५४-२६॥
स मामुवाच देवेन्द्रो न मर्त्योऽमर्त्यतां व्रजेत्। अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥१४-५४-२७॥
अमृतं देयमित्येव मयोक्तः स शचीपतिः। स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥१४-५४-२८॥
यदि देयमवश्यं वै मातङ्गोऽहं महाद्युते। भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने ॥१४-५४-२९॥
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै। प्रदातुमेष गच्छामि भार्गवायामृतं प्रभो ॥ प्रत्याख्यातस्त्वहं तेन न दद्यामिति भार्गव ॥१४-५४-३०॥
स तथा समयं कृत्वा तेन रूपेण वासवः। उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ॥ चण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥१४-५४-३१॥
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम्। तोयेप्सां तव दुर्धर्ष करिष्ये सफलामहम् ॥१४-५४-३२॥
येष्वहःसु तव ब्रह्मन्सलिलेच्छा भविष्यति। तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥१४-५४-३३॥
रसवच्च प्रदास्यन्ति ते तोयं भृगुनन्दन। उत्तङ्कमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥१४-५४-३४॥
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह। अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत ॥१४-५४-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.