14.055
जनमेजय उवाच॥
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः। यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे ॥१४-५५-१॥
वैशम्पायन उवाच॥
उत्तङ्को महता युक्तस्तपसा जनमेजय। गुरुभक्तः स तेजस्वी नान्यं कञ्चिदपूजयत् ॥१४-५५-२॥
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः। औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ॥१४-५५-३॥
गौतमस्य तु शिष्याणां बहूनां जनमेजय। उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥१४-५५-४॥
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा। सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥१४-५५-५॥
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः। उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥१४-५५-६॥
तं क्रमेण जरा तात प्रतिपेदे महामुनिम्। न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥१४-५५-७॥
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ। उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ॥१४-५५-८॥
स तु भाराभिभूतात्मा काष्ठभारमरिंदम। निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥१४-५५-९॥
तस्य काष्ठे विलग्नाभूज्जटा रूप्यसमप्रभा। ततः काष्ठैः सह तदा पपात धरणीतले ॥१४-५५-१०॥
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः। दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥१४-५५-११॥
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा। जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ॥ पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा ॥१४-५५-१२॥
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः। न हि तानश्रुपातान्वै शक्ता धारयितुं मही ॥१४-५५-१३॥
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः। कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ॥ स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः ॥१४-५५-१४॥
उत्तङ्क उवाच॥
भवद्गतेन मनसा भवत्प्रियचिकीर्षया। भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥१४-५५-१५॥
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे। शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः ॥१४-५५-१६॥
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया। उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥१४-५५-१७॥
गौतम उवाच॥
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव। व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ ॥१४-५५-१८॥
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव। अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् ॥१४-५५-१९॥
उत्तङ्क उवाच॥
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम। तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥१४-५५-२०॥
गौतम उवाच॥
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते। तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः ॥१४-५५-२१॥
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह। युवा षोडशवर्षो हि यदद्य भविता भवान् ॥१४-५५-२२॥
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज। एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ॥१४-५५-२३॥
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्। गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥१४-५५-२४॥
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम्। प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि ॥१४-५५-२५॥
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत्। तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥१४-५५-२६॥
अहल्योवाच॥
परितुष्टास्मि ते पुत्र नित्यं भगवता सह। पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ॥१४-५५-२७॥
वैशम्पायन उवाच॥
उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः। आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ॥१४-५५-२८॥
अहल्योवाच॥
सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले। ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥१४-५५-२९॥
स तथेति प्रतिश्रुत्य जगाम जनमेजय। गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥१४-५५-३०॥
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः। सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥१४-५५-३१॥
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते। इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ॥१४-५५-३२॥
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्। शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥१४-५५-३३॥
अहल्योवाच॥
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे। भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ॥१४-५५-३४॥
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः। उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥१४-५५-३५॥