14.056
वैशम्पायन उवाच॥
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्। दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥१४-५६-१॥
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्। प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ॥१४-५६-२॥
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्। भक्षं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ॥१४-५६-३॥
उत्तङ्क उवाच॥
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्। न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥१४-५६-४॥
राजोवाच॥
षष्ठे काले ममाहारो विहितो द्विजसत्तम। न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै ॥१४-५६-५॥
उत्तङ्क उवाच॥
एवमस्तु महाराज समयः क्रियतां तु मे। गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥१४-५६-६॥
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम। त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ॥१४-५६-७॥
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः। दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह ॥१४-५६-८॥
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥१४-५६-८॥
उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम। समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥१४-५६-९॥
सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किञ्चन। अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥१४-५६-१०॥
सौदास उवाच॥
यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः। यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद्ब्रवीहि मे ॥१४-५६-११॥
उत्तङ्क उवाच॥
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ। सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ॥१४-५६-१२॥
सौदास उवाच॥
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले। वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥१४-५६-१३॥
उत्तङ्क उवाच॥
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम्। प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ॥१४-५६-१४॥
वैशम्पायन उवाच॥
इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः। गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ॥१४-५६-१५॥
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता। प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥१४-५६-१६॥
उत्तङ्क उवाच॥
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर। स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति ॥१४-५६-१७॥
सौदास उवाच॥
द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे। षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥१४-५६-१८॥
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ। मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् ॥१४-५६-१९॥
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना। प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय ॥१४-५६-२०॥
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ। अभिज्ञानं तु किञ्चित्त्वं समानेतुमिहार्हसि ॥१४-५६-२१॥
इमे हि दिव्ये मणिकुण्डले मे; देवाश्च यक्षाश्च महोरगाश्च। तैस्तैरुपायैः परिहर्तुकामा; श्छिद्रेषु नित्यं परितर्कयन्ति ॥१४-५६-२२॥
निक्षिप्तमेतद्भुवि पन्नगास्तु; रत्नं समासाद्य परामृषेयुः। यक्षास्तथोच्छिष्टधृतं सुराश्च; निद्रावशं त्वा परिधर्षयेयुः ॥१४-५६-२३॥
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ। देवराक्षसनागानामप्रमत्तेन धार्यते ॥१४-५६-२४॥
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम। नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ॥१४-५६-२५॥
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः। विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥१४-५६-२६॥
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा। अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः ॥१४-५६-२७॥
एवंविधे ममैते वै कुण्डले परमार्चिते। त्रिषु लोकेषु विख्याते तदभिज्ञानमानय ॥१४-५६-२८॥